पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/२१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अधि. २.
१९३
कामधेनुसहिता।

  शब्दार्थों चरणौ प्रतीकविसरो वाक्यानि गुम्भो लस-
   न्मूर्तिर्वस्तु शिरः परिष्कृतिरलंकारोऽसवो रीतयः ।
  यस्याः स्वीयगुणा गुणाः सुरुचिराः शृङ्गारचेष्टादयो
   रम्याष्टादश वर्णनाः कृतिवधूः सेयं जगन्मोहिनी ॥

  इति कृतरचनायामिन्दुवंशोद्वहेन
   त्रिपुरहरधरित्रीमण्डलाखण्डलेन ।
  ललितवचसि काव्यालंक्रियाकामधेना-
   वधिकरणमयासीत्पञ्चमं पूर्तिमेतत् ॥


इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालंकारसूत्रवृत्तिव्याख्यायां काव्यालकारकामधेनौ प्रायोगिक नाम

पञ्चममधिकरणम् ॥

इति काव्यालंकारसूत्रवृत्तिः कामधेनुसहिता संपूर्णा ॥