भावमात्रं ह्यत्र विविक्षितम् । तेन सिद्धमिन्द्रवाहनामिति ।
सदसन्तो मया शब्दा विविच्यैवं निदर्शिताः ।
अनयैव दिशा कार्य शेषाणामप्यवेक्षणम् ॥
इति काव्यालंकारसूत्रवृत्तौ प्रायोगिके पञ्चमेऽधिकरणे द्वितीयोऽध्यायः॥
समाप्तं चेदं प्रायोगिकं पञ्चममधिकरणम् ॥
शब्द इति । अयमर्थः- पूर्वपदार्थस्येक्षुशरादेरिव नेन्द्रस्याहितत्वं विवक्ष्यते, किं तु इन्द्रस्वामिकं वाहनमिन्द्रवाहनमिति स्वस्वामिसंबन्धो विवक्ष्यते । ततश्च दाक्षिवाहनमितिवदिन्द्रवाहनमिति सिद्धमिति ।
सदसन्त इति । एवम् उक्तप्रकारेण । साधवश्चासाधवश्च शब्दा विविच्य पृथक्कृत्य निदर्शिता उदाहृताः । अनयैव दिशा अस्मदुक्तेनैव सदसद्विवेकमार्गेण । शेषाणामनुक्तानां सतामसतां च शब्दानाम् । अवेक्षणं पर्यालोचनं कार्यं कर्तव्यमिति भद्रम् ॥
इत्थं समिद्धगुणसंपदि वामनस्य
प्रस्थानसीमनि चिरादलसोज्झितायाम् ।
व्याख्यानपद्धतिरियं व्यवहारहेतो-
निष्कण्टका निपुणमारचिता कवीनाम् ॥
न्यायोक्तिवीचिनिचयेन कुतर्कजाल-
कूलंकषेण गहने गुणरत्नगर्भे ।
सारस्वतामृतसरस्वति नावमेना-
मालम्ब्य रन्तुमनसो विचरन्तु धीराः॥
पदे केचिद्वाक्ये कतिचन परे मान इतरे
कवित्वेऽलंकारे कतिचन परे नाट्यनिगमे ।
भजन्ति प्रागल्भ्यं न खलु वयमेतेषु गणिता
बहूकुर्वन्त्येते बुधसदसि नः किं तु सुधियः॥