पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/२११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अधि. २.
१९२
कामधेनुसहिता।

 न ह्यत्र षत्वलक्षणमस्ति । सुषामादिपाठोऽप्यस्य न निश्चितः ।

नाङ्गुलिसङ्ग इति मूर्धन्यविधेः ॥ ८९ ॥

 म्लायन्त्यङ्गुलिसङ्गेऽपि कोमलाः कुसुमस्रजः' इत्यत्राङ्गुलिसङ्ग इति न युक्तः 'समासेऽङ्गुलेः सङ्गः' इति मूर्धन्यविधानात् ।

तेनावन्तिसेनादयः प्रत्युक्ताः ॥ ९० ॥

 तेन अङ्गुलिसङ्ग इत्यनेन अवन्तिसेनः, इन्दुसेन एवमादयः शब्दाः प्रत्युक्ताः प्रत्याख्याताः, 'सुषामादिषु च' 'एति संज्ञायामगात्' इति मूर्धन्यविधानात् ।

नेन्द्रवाहने णत्वमाहितत्वस्याविवक्षितत्वात् ॥ ९१ ॥

 'कुथेन नागेन्द्रमिवेन्द्रवाहनम्' इत्यत्रेन्द्रवाहनशब्दे 'वाहनमाहितात्' इति णत्वं न भवति, आहितत्वस्य अविवक्षितत्वात् । स्वस्वामि-


निश्चयाच्च षत्वं चिन्त्यं निश्चेतुमशक्यमित्याह- न हीति ।

नाङ्गुलिसङ्ग इति । स्पष्टोऽर्थः ।

 तेनेति । 'सुषामादिषु च' इति सूत्रे, 'एति संज्ञायामगात्' इति गणसूत्रबलात् एकारपरस्यागकारात् परस्य संज्ञायां विषये मूर्धन्यादेशविधानादवन्तिसेनादयः प्रत्याख्याता इत्याह- तेनाङ्गुलिसङ्ग इत्यनेनेति ।

 नेन्द्रवाहने णत्वमिति । 'चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम्' इत्यादिप्रयोगो दृश्यते । अत्र वाहनमाहितात्' इति सूत्रे आहितवाचि यत् पूर्वपदं तस्मान्निमित्तादुत्तरस्य वाहननकारस्य णकारादेशो विधीयते । वाहने यदारोपितं तदाहितमित्युच्यते । तस्मादिक्षुवाहणमितिवदिन्द्रवाहणमिति प्रयोकव्यम्, न पुनरिन्द्रवाहनमिति प्राप्ते तन्निषेद्धुमाह-इन्द्रवाहन-

25