पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/२०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८८
[अधि. ५.
काव्यालंकारसूत्रवृत्तिः।

 'हरति हि वनराजिर्गच्छती श्यामभावम्' इत्यादिषु गच्छतीप्रभृतिषु शब्देषु 'शप्श्यनोर्नित्यम्' इति नुम् अनिमेध्यो निषेद्धुमशक्यः ।

मित्रेण गोप्त्रेति पुंवद्भावात् ॥ ८०॥

 मित्रेण गोप्त्रेति ? गोप्तृणा इति भवितव्यम्, 'इकोऽचि विभक्तौ' इति नुम्बिधानात् । आह - पुंवद्भावात् । 'तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य' इति पुंवद्भावेन गोप्त्रेति भवति ।

वेत्स्यसीति पदभङ्गात् ॥ ८१ ॥

 'पतितं वेत्स्यति क्षितौ' इत्यत्र वेत्स्यसीति न सिध्यति, इट्प्रसङ्गात् । आह-पदभङ्गात् । वेत्स्यसीति पदं भज्यते--वेत्सि, असि । असीत्ययं निपातस्त्वमित्यस्मिन्नर्थे । क्वचिद्वाक्यालंकारे प्रयुज्यते । यथा -'पार्थिवस्त्वमसि सत्यमभ्यधाः' इति ।

कामयानशब्दः सिद्धोऽनादिश्चेत् ॥ ८२ ॥

 कामयानशब्दः सिद्धः 'आगमानुशासनमनित्यम्' इति मुक्यकृतेः यद्यनादिः स्यात् ।

सौहृददौर्हृदशब्दावणि हृद्भावात् ॥ ८३ ॥


 मित्रेण गोप्त्रेति। स्पष्टमवशिष्ठम् ।

 वेत्स्यसीति। विदेर्ज्ञानार्थस्यानुदात्तोपदेशत्वाभावादिडागमेन भवितव्यम् । तथा च वेत्स्यसीति न सिध्यतीति चिन्तायां पदं विभज्य प्रयोगसाधुत्वं समर्थयते--पतितमित्यादिना।

 कामयान इति । 'आगमानुशासनमनित्यम्' इति वचनात् 'आने मुक्' इत्यकृते मुगागमे कामयान इति । स च प्रामाणिकैः प्रयुक्तश्चेत् साधुरित्यभिप्रायः ।

 सौहृददौर्हृदशब्दाविति । शोभनं हृदयं यस्य, दुष्टं हृदयं यस्येति विग्र-