पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/२०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८४
[अधि. ५.
काव्यालंकारसूत्रवृत्तिः।

इति तदन्तविधेः प्रतिषेधात् । समासवाक्यं त्वेवं कर्तव्यम्--- क्षतं दृढोरो येषामिति ।

अवैहीति वृद्धिरवद्या ॥ ६९ ॥

 अवैहीत्यत्र वृद्धिरवद्या; गुण एव युक्त इति ।

अपाङ्गनेत्रेति लुगलभ्यः ॥ ७० ॥

 अपाङ्गे नेत्रं यस्याः सेयमपाङ्गनेनेत्यत्र लुक् अलभ्यः, 'अमूर्धमस्तकात्स्वाङ्गादकामे' इति सप्तम्या अलुग्विधानात् ।

नेष्टाः श्लिष्टप्रियादयः पुंवद्भावप्रतिषेधात् ॥ ७१ ॥


नादुरःशब्दान्तात् कप्प्रत्ययो न भवति । तथा च विग्रहवाक्यमेवं कर्तव्यम्-दृढं च तदुरश्च दृढोरः, क्षतं दृढोरो येषामिति ; अतः क्षतदृढोरस इति सिध्यतीत्यर्थः ।

 अवैहीति । अवैहीत्यत्र इणो लोण्मध्यमपुरुषे, 'सेर्ह्यपिच्च' इति ह्यादेशे सति ङिद्वद्भावात् गुणाभावे, इहीति रूपम् । ततश्चावशब्दस्य प्राक्प्रयोगे 'आद्गुणः' इति गुणे सति, अवेहीति भवति । एत्येधत्यूठसु' इत्यत्र, एतेरेचि इत्यनुवर्तनात् वृद्धिर्न भवति । नन्ववाङोरुभयोरुपसर्गयोः प्राक्प्रयोगे वृद्धिः सिध्यतीति न चोदनीयम्, 'ओमाङोश्च' इति पररूपप्रसङ्गात् । तस्मादवैहीत्यत्र वृद्धिरसाधीयसीत्यर्थः ।

 अपाङ्गनेत्रेति । नेत्रशब्देन समुदायवाचिना तदेकदेशः कनीनिका लक्ष्यते। ततश्चापाङ्गे नेत्रं कनीनिका यस्याः सा अपाङ्गेनेत्रेति प्रयोक्तव्यम; न त्वपाङ्गनेत्रेति, 'अमूर्धमस्तकात्स्वाङ्गादकामे' इति नित्यं सप्तम्या अलुग्विधानादित्यभिप्रायवानाह-- अपाङ्गे नेत्रमिति ।

 नेष्टा इति । श्लिष्टा प्रिया येन, विश्लिष्टा कान्ता यस्मात् स विश्लिष्टप्रियः, विश्लिष्टकान्त इत्यादयः प्रयोगा इष्टा न भवन्ति, स्त्रियाः पुंवत्' इत्यादि-