पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/२०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अधि. २.
१८३
कामधेनुसहिता।

 'दुर्गन्धिः कायः' इत्यादिषु दुर्गन्धिपदे इत् समासान्तो दुर्लभः, उत्पूत्यादिषु दुशब्दस्यापाठात् ।

सुदत्यादयः प्रतिविधेयाः ॥ ६७ ॥

 ‘सा दक्षरोषात्सुदती ससर्ज' इति, 'शिखरदति पतति रशना' इत्यादिषु सुदत्यादयः शब्दाः प्रतिविधेयाः, दत्रादेशलक्षणाभावात् । तत्रप्रतिविधानम् - अग्रान्तादिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् सुदत्यादिषु दत्रादेश इत्येके । अन्ये तु वर्णयन्ति - सुदत्यादयः स्वयभिधायिनो योगरूढशब्दाः; तेषु 'स्त्रियां संज्ञायाम्' इति दत्रादेशो विकल्पेन सिद्ध एवेति ।

क्षतदृढोरस इति न कप्तदन्तविधिप्रतिषेधात् ॥ ६८॥

 'प्लवंगनखकोटिभिः क्षतदृढोरसो राक्षसाः' इत्यत्र दृढोरःशब्दात्, 'उरःप्रभृतिभ्यः कप्' इति कप् न कृतः, 'ग्रहणवता प्रातिपदिकेन'


तुर्भ्यः परस्य गन्धशब्दस्य समासान्तविधानात् उदादिषु दुरो ग्रहणाभावात् दुर्गन्धिरिति प्रयोगो न साधुरिति दर्शयति--- दुर्गन्धिः काय इति ।

 सुदत्यादय इति । वयस्यविवक्षिते दत्रादेशप्राप्तेरभावेऽपि शिष्टप्रयुक्तत्वात् सुदत्यादयः, प्रतिविधेयाः समाधेयाः । अत्र केचित्--- अग्रान्तादिसूत्रे चकारस्थानुक्तसमुच्चयार्थत्वात् अहिदन्नित्यादिष्विव दत्रादेशे कृते 'उगितश्च' इति ङीपि सति सुदत्यादयः सिध्यन्तीति प्रतिविदधते । अपरे तु-- स्त्रीमात्राभिधायिनी योगरूढाः सुदत्यादय इति, 'स्त्रियां संज्ञायाम्' इति दत्रादेशे सिध्यन्तीति वदन्तीत्यभिप्रायेण व्याचष्टे-- सा दक्षरोषादित्यादिना।

 क्षतदृढोरस इत्यस्य साधुत्वं समर्थयितुं प्रथमं तावत् प्रामाणिकप्रयोगं प्रदर्शयति- प्लवंगेति । ननु बहुव्रीहौ समासे उरःप्रभृतिभ्यो नित्यं कब्विधानात् क्षतदृढोरस्क इति कपा भवितव्यमिति प्राप्ते, कबभावे कारणं कथयितुमाह--- उरप्रभृतिभ्य इति । ' ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नेष्यते' इति वच-