पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/२०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अधि. २.
१८१
कामधेनुसहिता।

 वौद्धस्य प्रतियोगिनोऽपेक्षायामपि आतिशायनिकास्तरवादयो भवन्ति- घनतरं तमः, बहुलतरं प्रेमेति ।

कौशिलादय इलचि वर्णलोपात् ॥ ६१ ॥

 कौशिलः, वासिल इत्यादयः कथम् ? आह--इलचि वर्णलोपात् कौशिकवासिष्ठादिभ्यः शब्देभ्यो नीतावनुकम्पायां वा 'घनिलचौ च' इतीलचि कृते 'ठाजादावूध्र्वं द्वितीयादचः' इति वर्णलोपात् सिध्यति ।

मौक्तिकमिति विनयादिपाठात् ॥ ६२ ॥

 मुक्तैव मौक्तिकमिति विनयादिपाठात् द्रष्टव्यम् । 'स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति नपुंसकत्वम् ।


तिशयेन घनमिति विग्रहे शब्दोपत्तिप्रतियोग्यपेक्षया अतिशायनार्थे तरबादिविधानादसति शब्दोपात्ते प्रतियोगिनि घनतरं तम इति प्रयोगः कथमिति चिन्तायां बुद्धिसंनिधापितेऽपि प्रतियोगिन्यातिशायनिकाः प्रत्यया भवन्तीति दर्शयति-- 'बौद्धस्येति ।

 कौशिलादय इति । अनुकम्पितः कौशिकः, अनुकम्पितो वासिष्ठ इत्यस्मिन्नर्थे कौशिलो वासिलः इत्यादयः प्रयोगाः कथमिति विचारणायां साधुत्वं समर्थयते-- कौशिलो वासिल इति । अत्र 'धनिलचौ च' इति सूत्रेण अनुकम्पायां नीतौ वा बह्वचो मनुष्यनाम्नो घनिलचौ प्रत्ययौ विधीयेते । अतः कौशिकवासिष्ठशब्दाभ्यामुक्तलक्षणाभ्यामिलचि कृते 'ठाजादावूर्ध्वं द्वितीयादचः' इत्यजादौ प्रत्यये परतः प्रकृतेर्द्वितीयादचः परस्य शब्दरूपस्य लोपे सति यस्येति च' इतीकारलोपे च कौशिलो वासिल इत्यादयः प्रयोगाः सिध्यन्तीति समर्थयते-- कौशिकेति।

 मौक्तिकामिति । विनयादिषु पाठेऽभ्युपगते ‘विनयादिभ्यष्ठक्' इति खार्थिके ठकि कृते मौक्तिकमिति सिध्यतीत्याह-मुक्तैव मौक्तिकमिति । अत्र प्रकृतिलिङ्गस्यातिक्रमणे भाष्यकारवचनं प्रमाणयति-स्वार्थिका इति ।