पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/२००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८०
[अधि. ५.
काव्यालंकारसूत्रवृत्तिः।

 अथ 'अनुमेयशोभि' इति कथम् ? न ह्यत्र पूर्ववद्वृत्तिः शक्या कर्तुमिति ; शुभेः साधुकारिण्यावश्यके वा णिनिं कृत्वा तदन्ताच्च भावप्रत्यये पश्चात् बहुव्रीहिः कर्तव्यः-- अनुमेयं शोभित्वं यस्येति । भावप्रत्ययस्तु गतार्थत्वान्न प्रयुक्तः, यथा-निराकुलं तिष्ठति, सधीरमुवाचेति ।

कञ्चुकीया इति क्यचि ॥ ५९ ॥

 'जीवन्ति राजमहिषीमनु कञ्चुकीयाः' इति कथम्? मत्वर्थीयस्य च्छप्रत्ययस्याभावात् । अत आह- क्यचि । क्याचि अच्प्रत्यये सति कञ्चुकीया इति भवति । कञ्चुकमात्मन इच्छन्ति कञ्चुकीयाः ।

बौद्धप्रतियोग्यपेक्षायामप्यातिशायनिकाः ॥ ६ ॥

 ननु चतुरश्रशोभीत्यत्र समर्थितेऽपि साधुने अनुमेयशोभीति न सिध्यति, उक्तन्यायाप्रवृत्तेरिति शङ्कते--अथेति । तदप्रवृत्तिमेव दर्शयति--- न ह्यत्रेति । चतुरश्रशोभीतिवदनुमेयं शोभितुं शीलमस्येति विग्रहे विवक्षितार्थासिद्धिः, कर्मविवक्षाया असंभवात् । अविवक्षिते कर्मण्युपपदे कृत्प्रत्ययः कर्तुं न शक्यत इति शङ्कार्थः । ताच्छीलिकणिनेरसंभवेऽपि, 'साधुकारिणि च' इति वक्तव्यबलात् , ' आवश्यकाधमर्ण्ययोर्णिनिः' इति सूत्राद्वा साधुकारिण्यावश्यके वार्थे विवक्षिते णिनिः सिध्यति । ततः शोभिनो भाव इति भावार्थे त्वप्रत्यये सति पश्चादनुमेयं शोभित्वं यस्येति बहुव्रीहौ सत्यनन्तरम् 'उक्तार्थानामप्रयोगः' इति त्वत्प्रत्ययस्य निवृत्तौ च सत्याम् अनुमेयशोभीति सिध्यतीति परिहरति-- शुभेरिति ।

 कञ्चुकीया इति । कञ्चुका एषां सन्तीति कञ्चुकीया इति न शक्यते वक्तुम् , छप्रत्ययस्य मत्वर्थीयस्याभावात् । कथं कञ्चुकीया इति चोदयति- जीवन्तीत्यादिना । कञ्चुकमात्मन इच्छन्तीत्येतस्मिन्नर्थे, 'सुप आत्मनः क्यच्' इति क्यचि कृते 'क्यचि च' इतीकारे च सति ततः पचाद्यचि कृते कञ्चुकीया इति सिध्यतीति परिहरति-- क्यचि अप्रत्यये सतीति।

 बौद्धप्रतियोग्यपेक्षायामिति । इदं धनम् , इदं च धनम् , इदमनयोर-