पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अधि. २.
१७१
कामधेनुसहिता।

दादिभिः सह ब्रह्मादीनां षष्ठीसमास इति ।

तैर्महीधरादयो व्याख्याताः ॥ ३७॥

 तैः ब्रह्मविदादिभिर्महीधरादयो व्याख्याताः । धरतीति धरः, मह्या धरो महीधरः । एवं गङ्गाधरादयः ।

भिदुरादयः कर्मकर्तरि कर्तरि च ॥ ३८ ॥

 भिदुरं काष्ठम् "भिदुरं तमः' 'तिमिरभिदुरं व्योम्नः शृङ्गम्' इति, 'छिदुरातपो दिवसः' 'मत्सरच्छिदुरं प्रेम' 'भङ्गुरा प्रीतिः' 'मातङ्गं मानभङ्गुरम्' इत्यादयोऽपि प्रयोगा दृश्यन्ते; ते कथमित्यत्राह- कर्मकर्तरि कर्तरि च । 'कर्मकर्तरि चायमिष्यते' इत्यत्र चकारः ‘कर्तरि च' इत्यस्य समुच्चयार्थः।

गुणविस्तरादयश्चिन्त्याः ॥ ३९ ॥

 गुणविस्तरः, व्याक्षेपविस्तर इत्यादयः प्रयोगाश्चिन्त्याः, 'प्रथने वावशब्दे' इति घञ्प्रसङ्गात् ।

व्युपत्तिसिद्धेन कृदन्तेन सह षष्ठीसमासे सति ब्रह्मविदादीनां साधुत्वमित्यर्थः ।

 उक्तामेतां युक्तिमन्यत्रापि योजयति---- तैरिति । अत्र 'कर्मण्यण्' इति सूत्रेण कर्मण्युपपदे धातोरण्विधानान्महीधरादीनामसाधुत्वशङ्कायामिहाप्युपपदनैरपेक्ष्यषष्ठीसमासाश्रयणाभ्यां साधुत्वमस्तीति व्याचष्टे--- धरतीति धर इति

 भिदुरादय इति । 'कर्मकर्तरि चायमिष्यते' इत्यत्र चकारं प्रयुक्तवता तत्रभवता भाष्यकृता कर्तर्यपि प्रयोगोऽभ्यनुज्ञात इति भिदुरादयः शब्दाः कर्मकतरि, कर्तरि च प्रयोक्तव्या इत्याह--- भिदुरं काष्ठमिति ।

 गुणविस्तरादयः इति । 'प्रथने वावशब्दे' इति विपूर्वात्स्तृणातेरशब्दविषये प्रथने धञ्विधानाद्गुणविस्तार इत्येव प्रयोक्तव्यम् , न तु गुणविस्तर इतीत्याह-- प्रथन इति ।