पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७०
[अधि. ५.
काव्यालंकारसूत्रवृत्तिः।

 ण्युपपदे, 'आतोऽनुपसर्गे कः' इति कप्रत्यये सतीति ।

महीध्रादयो मूलविभुजादिदर्शनात् ॥ ३४ ॥

 महीध्रधरणीध्रादयः शब्दाः, मूलविभुजादिदर्शनात् कप्रत्यये सती ति । महीं धरतीति महीध्र इति । एवमादयोऽन्येऽपि द्रष्टव्याः।

ब्रह्मादिषु हन्तेर्नियमादरिहाद्यसिद्धिः ॥ ३५ ॥

 ब्रह्मादिषूपपदेषु हन्तेः क्विब्विधौ ‘ब्रह्मभ्रूणवृत्रेषु--' इत्यत्र नियमात् ब्रह्मादिष्वेव, हन्तेरेव, क्विवेव, भूतकाल एवेति चतुर्विधश्चात्र नियम इति नियमात् अरिहा रिपुडा इत्येवमादीनामसिद्धिः ।

ब्रह्मविदादयः कृदन्तवृत्त्या ॥ ३६ ॥

 ब्रह्मवित्, वृत्रभिदित्यादयः प्रयोगा न युक्ताः। 'ब्रह्मभ्रूण-' इत्यत्र ब्रह्मादिषु हन्तेरेव इति नियमात् । आह- कृदन्तकृत्या । वेत्तीति वित् । भिनत्तीति भित् । 'क्विप् च' इति क्विप् । ततः कृदन्तैर्वि-

पदसमासे कृते पत्रलमिति सिद्धमित्याह-पत्रलं वनमिति ।

 महीध्रादय इति । महीं धरतीति विग्रहे मूलविभुजादेराकृतिगणत्वात् कप्रत्यये कृते कित्त्वेन गुणाभावाद्यणादेशे सति" महीध्रादयः सिद्धा इत्याह-- महीध्रधरणीध्रादय इति ।

 ब्रह्मादिष्विति । 'ब्रह्मभ्रूणवृत्रेषु क्विप्' इत्यत्र ब्रह्मादिष्वेवोपपदेषु भूत एव काले हन्तेरेव धातोः क्विबेव प्रत्ययो भवतीत्युपपदकालधातुप्रत्ययविषयम्य चतुर्धानियमस्यानुशिष्टत्वात् अरिहेत्यादीनामसिद्धिरित्याह-- ब्रह्मादिषूपपदेष्विति।

 ननु तर्हि चतुर्धानियमाश्रयणे ब्रह्मविदादीनां का गतिरिति प्राप्ते, प्राह----ब्रह्मवित् वृत्रभिदिति । उपपदकालनैरपेक्ष्येण क्विपि सति समासान्तराश्रयणेन ब्रह्मविदादयः सिध्यन्तीति व्याचष्टे- वेत्तीति । वेत्तीति वित् , भिनत्तीति भिदिति