'घातयित्वा दशास्यम्' इत्यत्राहेतौ णिच् दृश्यते ; स कथमित्यत आह- चुरादिपाठात्, चुरादिषु 'चट स्फुट भेदे' 'घट संघाते' 'हन्त्यर्थाश्च' इति पाठात् ।
अनुचरीति चरेष्टित्त्वात् ॥ ३१॥
'अनुचरी प्रियतमा मदालसा' इत्यत्र अनुचरीति न युक्तः, ईकाराभावात् । तत् कथम् ? आह-चरेष्टित्त्वात् । पचादिषु चरडिति पठ्यते।
केसरालमित्यलतेरणि ॥ ३२ ॥
'केसरालं शिलीध्रम्' इत्यत्र केसरालमिति कथम् ? आह- अलतेरणि । अल भूषणपर्याप्तिवारणेषु इत्यस्माद्धातोः केसरशब्दे कर्मण्युपपदे 'कर्मण्यण्' 'इत्यभेन, अणि सति केसरालमिति सिध्यति ।
पत्रलमिति लातेः के ॥ ३३ ॥
'पत्रलं वनमिदं विराजते' इत्यत्र पत्रलमिति कथम् ? आह-- लातेः के । 'ला आदाने' इत्येतस्माद्धातोरादानार्थात् पत्रशब्दे कर्म-
च चुरादिपाठात् स्वार्थण्यन्तः साधुरित्याह-- घातयित्वेति ।
अनुचरीति। आक्षेपपूर्वकमनुचरीति पदस्य साधुत्वं समर्थयते---- अनुचरी प्रियतमेति । ईकाराभावादिति । पचाद्यजन्तत्वेन ङीप्प्राप्तेरभावादित्यर्थः ।
केसरशब्दस्य प्राण्यङ्गवाचित्वाकारान्तत्वयोरभावात् 'प्राणिस्थादातो लजन्यतरस्याम्' इति लजमावात् कथं केसरालमिति प्राप्ते, तदुपपत्तिं वक्तुमाह--केसरालमिति । वृत्तिः स्पष्टार्था ।
पत्नशब्दः सिध्मादिषु न पठ्यते इति “सिध्मादिभ्यश्च' इति नास्ति लच्प्रत्यय इति कथं पत्रलमिति चिन्तायां साधुत्वं समर्थयते-पत्रलमिति । पत्राणि लाति आदत्त इति विग्रहे 'आतोऽनुपसर्गे कः' इति कप्रत्यये सति उप-
22