पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६८
[अधि. ५.
काव्यालंकारसूत्रवृत्तिः।

 'खरोष्ट्रौ वाहनं येषाम्' इत्यत्र खरोष्ट्राविति प्रयोगो न युक्तः, गवाश्वप्रभृतिषु 'उष्ट्रखरम्' इति पाठात् ॥

आसेत्यसतेः ॥ २७॥

 'लावण्यमुत्पाद्य इवास यत्नः' इत्यत्र आस इत्यसतेर्धातोः 'अस गतिदीप्त्यादानेषु' इत्यस्य प्रयोगः; न अस्तेः, भूभावविधानात् ।

युध्येदिति युधः क्यचि ॥ २८ ॥

 'यो भर्तृपिण्डस्य कृते न युध्येत्' इति प्रयोगः; स चायुक्तः, युधेरात्मनेपदित्वात् । तत् कथं युध्येदित्यत्राह- युधः क्यचि । युध- मात्मन इच्छेत् युध्येदिति ।

विरलायमानादिषु क्यङ् निरूप्यः॥ २९ ॥

 'बिरलायमाने मलयमारुते' इत्यादिषु क्यङ् निरूप्यः, भृशादिष्वपाठात् । नापि क्यष् , लोहितादिष्वपाठात् ।

अहेतौ हन्तेर्णिच् चुरादिपाठात् ॥ ३०॥

विति व्यत्यासेन प्रयोगोऽनुपपन्न इत्याह-- खरोष्ट्रौ वाहनमिति ।

 आसेति । 'अस्तेर्भूः' इत्यार्धघातुके भूभावविधानात् कथमासेति प्रयोग इति प्राप्ते, असतेर्धातोर्लिटि रूपमासेति, न पुनरस्तेरित्याह-- लावण्य इति

 युध्येदिति । युधेरात्मनेपदिनः परस्मैपदं दृश्यते । तस्य शिष्टप्रयोगस्य साधुत्वं दर्शयितुमाह-- य इति । युधशब्दात् 'सुप आत्मनः क्यच्' इति क्यच्प्रत्यये कृते सति लिङि युध्येदिति सिध्यतीत्याह- युधमिति

 विरलायमानादिष्विति । क्यक्यषोरप्राप्तत्वात् प्रत्याचष्टे--विरलायमान इति ।

 अहेताविति । घातयित्वेत्यत्र अहेतुकर्तृभावेऽपि प्रयोगो दृश्यते । स