पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अधि. २.
१६७
कामधेनुसहिता।

 यथा-

 'शक्यमोषधिपतेर्नवोदयाः कर्णपूररचनाकृते तव ।

 अप्रगल्भयवसूचिकोमलाश्छेत्तुमग्रनखसंपुटैः कराः ॥'


 न चैकान्तिकः सामान्योपक्रमः । तेन 'शक्या भङ्क्तुं झटिति बिसिनीकंदवच्चन्द्रपादाः' इत्यपि भवति ।

हानिवदाधिक्यमप्यङ्गानां विकारः॥ २४ ॥

 'येनाङ्गविकारः' इत्यत्र सूत्रे यथा अङ्गानां हानिः, तथा आधिक्यमपि विकारः।

 यथा 'अक्ष्णा काणः' इति भवति, तथा 'मुखेन त्रिलोचनः' इत्यपि भवति ।

न कृमिकीटानामित्येकवद्भावप्रसङ्गात् ॥ २५॥

 'आयुषः कृमिकीटानामलंकरणमल्पता' इत्यत्र कृमिकीटानामिति प्रयोगो न युक्तः, क्षुद्रजन्तवः' इत्येकवद्भावप्रसङ्गात् । न च मध्यमप- दलोपी समासो युक्तः, तस्य असर्वविषयत्वात् ।

न खरोष्ट्रावुष्ट्रखरमिति पाठात् ॥ २६ ॥

यथेति । ऐकान्तिको नियतः ।

 हानिवदिति । मुखेन त्रिलोचन इत्यत्र तृतीयाप्राप्तावनुशासनस्यादर्शनात् कथमत्र तृतीयेति चिन्तायामाह-- येनाङ्गविकार इति । हानिः न्यूनता । यथा अङ्गानां न्यूनता विकारः तथा आधिक्यमपि विकार एव, अतो 'येनाविकारः' इति तृतीया ।

 न कृमीति । क्षुद्रजन्तुवाचिनां द्वन्द्वसमासे एकवद्भावविधानात् बहुवचनान्तप्रयोगो न साधुरित्याह- आयुष इति । ननु मुखसहिता नासिका मुखनासिकेतिवत् मध्यमपदलोपी समासः स्यादित्यपि न वक्तुं युक्तम् । तस्य असार्वत्रिकत्वादिति समर्थयते-- न चेति

 न खरोष्ट्राविति । गवाश्वादिगणे उष्ट्रखरमिति निपातितत्वात् खरोष्ट्रा-