पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६६
[अधि. ५.
काव्यालंकारसूत्रवृत्तिः।

 'अनभिहिते' इत्यत्र सूत्रे 'तिकृत्तद्धितसमासैः' इति परिगणनं कृतम् । तस्य प्रायिकत्वान्निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिर्भ- वति ।

 यथा- 'विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम्' 'पण्डितं मूर्ख इति मन्यते' इति ।

शक्यमिति रूपं कर्माभिधायां लिङ्गवचनस्यापि सामान्योपक्रमात् ॥ २३ ॥

 शकेः 'शकिसहोश्च' इति कर्मणि यति सति शक्यमिति रूपं भवति कर्माभिधायां कर्मवचने । लिङ्गवचनस्यापि सामान्योपक्रमात् विशेषानपेक्षायामिति ।

म् । ततश्चैवंविधाः प्रयोगाः सिद्धा इति दर्शयति-विषवृक्ष इति । अत्र संवधनच्छेदनक्रिययोः सकर्मकत्वेन कर्माकाङ्क्षायां न कर्मविभक्तिर्भवति, विधेयायुक्तस्वाभिधायिना असांप्रतमिति निपातेनाभिहितत्वात् । नन्वसांप्रतपदस्य तद्धितान्तत्वात् तेनैवाभिहिते न भवत्येव कर्मविभक्तिः । अतो नेदमुदाहरणमिति न चोदनीयम् ; 'युक्ते काले च सांप्रतम्' इत्यभिधानादतद्धितान्त एवायं निपातः । तद्धितान्तत्वे वा तस्यानन्यार्थत्वान्न तेनाभिधानमिति भावः । शब्दशक्तिस्वाभाव्यादस्याभिधायकत्वमिति द्रष्टव्यम् । मूर्ख इति । अत्र समुदायस्य कर्मत्वेऽपि 'अर्थवत्समुदायानां समासग्रहणं नियमार्थम्' इति वाक्यान्न विभक्त्युत्पत्तिः ।

 शक्यमञ्जलिभिः पातुं वाताः केतकगन्धिनः' इत्यादयः प्रयोगा दृश्यन्ते। शकेः कृत्यप्रत्यये शक्यमिति रूपम् । 'तयोरेव कृत्यक्तखलर्थाः' इति कर्मार्थे विहितस्य तस्य कर्माभिधायां विशेष्यवल्लिङ्गवचनाभ्यां भवितव्यमिति प्राप्ते प्राह-शक्यमिति रूपमिति । कर्माभिधायामपि शक्यमिति रूपं सिद्धम् । तत्र हेतुमाह-~-लिङ्गवचनस्यापीति । लिङ्गं च वचनं च लिङ्गवचनम् । तस्य सामान्योपक्रमाल्लिङ्गसामान्यं नपुंसकम् , वचनसामान्यम् एकत्वम् , तयोरुपक्रमात् विशेषनैरपेक्ष्येण लिङ्गवचनसामान्यस्य विवक्षणादित्यर्थः । उदाहृत्य दर्शयति--