पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अ. २.
१५९
कामधेनुसहिता।

मार्गेरात्मनेपदमलक्ष्म ॥ ६ ॥

 चुरादौ ‘मार्ग अन्वेषणे' इति पठ्यते 'आ धृषाद्वा' इति विकल्पितणिच्कः । तस्माद्यदात्मनेपदं दृश्यते-मार्गन्तां देहभारमिति; तत् अलक्ष्म अलक्षणम् , परस्मैपदित्वान्मार्गेः । तथा च शिष्टप्रयोगः- 'करकिसलयं धृत्वा धृत्वा विमार्गति वाससी।'

लोलमानादयश्चानशि ॥ ७॥

 लोलमानो वेल्लमान इत्यादयश्चानशि द्रष्टव्याः। शानचस्त्वभावः, परस्मैपदित्वाद्धातूनामिति ।

लभेर्गत्यर्थत्वापिणच्यणौ कर्तुः कर्मत्वाकर्मत्वे ॥ ८॥

 अस्त्ययं लभिः, यः प्राप्त्युपसर्जनां गतिमाह; अस्ति च यो गत्यु-

 मार्गेरिति । चौरादिकस्य मार्गेः ‘आ धृषाद्वा' इति णिचो वैकल्पिकत्वेन तदभावे सति परस्मैपदित्वान्मार्गतीति शिष्टप्रयोगदर्शनाच्च परस्मैपदे प्रयोक्तव्ये, यत्तु प्रयोगे कुत्रचिदात्मनेपदं दृश्यते~ मार्गन्तामिति ; तल्लक्षणहीनमित्याह--चुरादाविति । द्वयोरपि प्रयोगयोर्दर्शने कथमत्र व्यवस्थेति तत्राह- तथा च शिष्टप्रयोग इति । {{gap}}लोलमानादय इति । 'लोलमाननवमौक्तिकहारं वेल्लमानचिकुरश्लथमाल्यम् । स्विन्नवक्त्रमविकस्वरनेत्रं कौशलं विजयते कलकण्ठ्याः ॥' इत्यादिषु लोलमानादयः प्रयोगा दृश्यन्ते । परस्मैपदित्वादेतेषां शानजन्तत्वं विरुद्धम् ; आत्मनेपदित्वाच्छानच इत्याशङ्कायां प्रकारान्तरेण साधुत्वं समर्थयते---- लोलमानो वेल्लमान इति । 'ताच्छील्यवयोवचनशक्तिषु चानश्' इति ताच्छील्यादिष्वर्थेषु धात्वधिकारे चानशो विधानादेते प्रयोगाश्चानशि द्रष्टव्याः; न तु शानचि । अतो न विरोधः ।

 लभेरिति । यद्यपि 'डुलभष् प्राप्तौ' इति प्राप्तिरेव लभेरर्थः, तथापि प्राप्तेर्गतिपूर्वकत्वात् प्राप्तिगत्योः कार्यकरणयोरभेदोपचारेण प्राप्त्युपसर्जनगत्यर्थत्वमपि लभेरङ्गीकृत्य प्रथमं तावत्पक्षद्वयं प्रस्तौति--अस्त्ययमिति । यः प्राप्त्यु-