पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८५
[अधि. ५.
काव्यालंकारसूत्रवृत्तिः।

मात्मनेपदम्; किमर्थं ङित्करणम् ? तत्क्रियते अनुदात्तनिमित्तस्यात्मनेपदस्यानित्यत्वज्ञापनार्थम् ।

 एतेन वेदिभर्त्सितर्जिप्रभृतयो व्याख्याताः। आवेदयति, भर्त्सयति, तर्जयतीत्यादीनां प्रयोगाणां दर्शनात् । अन्यत्राप्यनुदात्तनिबन्धन- स्यात्मनेपदस्यानित्यत्वं ज्ञापकेन द्रष्टव्यमिति ।

क्षीयत इति कर्मकर्तरि ॥ ४ ॥

 क्षीयत इति प्रयोगो दृश्यते ; स कर्मकर्तरि द्रष्टव्यः । क्षीयतेरनात्मनेपदित्वात् ।

खिद्यत इति च ॥ ५॥

 खिद्यत इति च प्रयोगो दृश्यते, सोऽपि कर्मकर्तर्येव द्रष्टव्यः, न कर्तरि, अदैवादिकत्वात् खिदेः।


तर्हि 'चक्ष व्यक्तायां वाचि' इत्यकरान्तः पठ्येतेति भावः । उक्तमात्मनेपदस्यानित्यत्वं वेदिभर्त्सिप्रभृतिष्वपि द्रष्टव्यमित्याह-- एतेनेति । 'आ गर्वादात्मनेपदिनः' इत्यात्मनेपदित्वेनानुदात्तेत्त्वं लक्ष्यत इति भावः । अन्यथानुदात्तेत्त्वनिबन्धनस्यात्मनेपदस्यानित्यताज्ञापने किमायातम् । न चैवमतिप्रसङ्गः, शिष्टप्रयोगमात्रविषयत्वाज्ज्ञापकस्य ।

{{gap}}क्षीयत इति । क्षिणोतेः सौवादिकस्य श्नुप्रत्ययान्तत्वेन प्रसिद्धावपि क्षीयत इति कर्तरि शिष्टप्रयोगो दृश्यते; तस्योपपत्तिमाह–स कर्मकर्तरि द्रष्टव्य इति । क्षिणोतेः कर्मस्थभावकत्वात् कर्मवद्भावः ॥

 खिद्यत इति चेति । चकारेण कर्मकर्तरीति समुच्चिनोति-सोಽपीति । खिदोऽकर्मकत्वादन्तर्भावितण्यर्थत्वे प्रयोज्यकर्मस्थभावकत्वात् कर्मवद्भावः । खिदेरनुदात्तेतः श्यनि कृते खिद्यत इति रूपं सिध्यतीति शङ्कां परिहरति-- अदैवादिकत्वादिति ।


 1. वस्तुतस्तु पद्यतेरनन्तर खिद्यतिरात्मनेपदी दिवादावुपलभ्यत एव । खिद्यत इति पाठान्तरम् । व्याख्याता तु खिदिमेव मन्यते । क्षीयत इति च दिवादेरवृत्कृतत्वात्सिध्यतीति दीक्षितप्रभृतयः।