पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अ. २.
१५७
कामधेनुसहिता।

 इति विशेषान्तरमप्यस्तीति । एतेनेन्द्रौ भवौ शर्वावित्यादयः प्रयोगाः प्रत्युक्ताः।

मिलिक्लबिक्षपिप्रभृतीनां धातुत्वं धातुगणस्यापरिसमाप्तेः ॥ २॥

 मिलति विक्लबति क्षपयतीत्यादयः प्रयोगा दृश्यन्ते । तत्र मिलिक्लबिक्षपिप्रभृतीनां कथं धातुत्वम् , गणपठितानामेव धातुसंज्ञाविधा- नात् ? तत्राह- धातुगणस्यापरिसमाप्तेः । 'वर्धते धातुगणः' इति हि शब्दविद आचक्षते । तेनैषां गणपाठेऽनुमतिः, शिष्टप्रयोगादिति ।

वलेरात्मनेपदमनित्यं ज्ञापकात् ॥ ३ ॥

 वलेरनुदात्तेत्त्वादात्मनेपदं, यत् , तदनित्यं दृश्यते-'लज्जालोलं वलन्ती' इत्यादिप्रयोगेषु । तत् कथमित्याह-ज्ञापकात् । किं पुनस्तज्ज्ञापकम् ? चक्षिङो द्व्यनुबन्धकरणम् । चक्षिङ इकारेणैवानुदात्तेन सिद्ध-


एतत्समानयोगक्षेमाणि प्रयोगान्तराणि प्रत्याख्येयानीत्याह--एतेनेति

 मिलिक्लबीति । 'भूवादयो धातवः' इति गणपठितानामेव धातुसंज्ञाविधानाद्धातुगणे मिलिप्रभृतीनामपाठात् कथं धातुत्वमित्याशङ्कापूर्वकं धातुत्वं समर्थयते-- मिलति विक्लबति क्षपयतीति । धातुगणस्यापरिसमाप्तौ प्राचीनाचार्यवचनं प्रमाणयति--- वर्धते धातुगण इति । प्रभृतिग्रहणाद्वीज्यान्दोलादयः ।

 वलेरात्मनेपदमिति । ' अनुदात्तङित आत्मनेपदम्' इति वलेर्धातोरनुदात्तेत्त्वान्नित्यमात्मनेपदप्राप्तौ शिष्टप्रयोगेषु परस्मैपददर्शनात् तत्सिद्धये क्वचिदनु दात्तेत्त्वनिबन्धनस्यात्मनेपदस्यानित्यत्वं ज्ञापकेन समर्थयितुमाह-वलेरनुदात्तेत्वादिति । अनुदात्तेत्वनिबन्धनस्यात्मनेपदस्यानित्यत्वे चक्षिङो ङित्करणं ज्ञापकमित्याह-चक्षिङो द्व्यनुबन्धकरणमिति । इकारेणैवेति । नन्वेवं गोः पादान्ते' इत्यतोऽन्तग्रहणानुवृत्तेरन्तेदित्त्वे सति 'इदितो नुं धातोः' इति नुम् स्यात्,