पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
॥ द्वितीयोऽध्यायः॥

 सांप्रतं शब्दशुद्धिरुच्यते--

रुद्रावित्येकशेषोऽन्वेष्यः ॥१॥

 रुद्रावित्यत्र प्रयोगे एकशेषः अन्वेष्यः अन्वेषणीयः । रुद्रश्च रुद्राणी चेति 'पुमान् स्त्रिया' इत्येकशेषः; स च न प्राप्नोति । तत्र हि 'तल्लक्षणश्चेदेव विशेषः' इत्यनुवर्तते इति तत्रैवकारकरणात् स्त्रीपुंसकृत एव यदि विशेषो भवतीति व्यवस्थितम् । अत्र तु 'पुंयोगादाख्यायाम्'

छिन्त्ते मोहं चित्प्रकर्षं प्रयुङ्के सूते सूक्तिं सूयते या पुमर्थान् ।

प्रीतिं कीर्तिं प्राप्तुकामेन सैषा शाब्दी शुद्धिः शारदेवास्तु सेव्या ॥

 अथेदानीमध्यायान्तरं व्याचिख्यासुस्तत्प्रयोजनं प्रस्तौति---सांप्रतमिति । तत्र तावदेकशेषविषयं किंचिच्छोधयितुं सूत्रमनुभाषते- रुद्राविति । 'पुमान् स्त्रिया' इत्येकशेषो विधीयते । तत्र 'वृद्धो यूना-' इति सूत्रात् 'तल्लक्षणश्चेदेव विशेषः' इत्यनुवर्तते । तदिति स्त्रीपुंसयोर्निर्देशः । लक्षणशब्दो निमित्तपर्यायः । चेच्छब्दो यद्यर्थे । एवकारोऽवधारणे । विशेषो वैरूप्यम् । स्त्रिया सह वचने पुमान् शिष्यते । स्त्रीपुंसलक्षण एव चेद्विशेषो भवति, स्त्रीपुंसकृतमेव यदि वैरूप्यं भवतीत्यर्थः । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणाविति । तद्वदेव रुद्रश्च रुद्राणी च रुद्रावित्यत्राप्येकशेषः प्राप्नोतीति यः कश्चिदभिमन्यते, तत्प्रतिषेधाय प्रयोगादर्शनं प्रत्याययति-अन्वेषणीय इति । न्यायतः प्राप्तौ प्रयोगोऽप्युन्नीयतामिति, तत्राह-स च न प्राप्नोतीति । अप्राप्तिमेव दर्शयितुमाह-तत्र हीति । अस्त्वेवं व्यवस्था, प्रकृते को विरोध इति तत्राह-अत्र त्विति । रुद्राणीत्यत्र 'पुंयोगादाख्यायाम्' इत्यनुवर्तमाने 'इन्द्रवरुण-' इत्यादिना ङीष् विधीयते---पुंस आख्याभूतं यत्प्रातिपदिकं पुंयोगात् स्त्रियां वर्तते तस्मात् ङीष्प्रत्ययो भवतीति । अतस्तल्लक्षणविशेषव्यतिरेकेण विशेषान्तरस्यापि विद्यमानत्वान्नात्रैकशेषप्राप्तिरिति ।