पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अ. १.
१५५
कामधेनुसहिता।

 अथ कथं द्वित्वाविष्टत्वं जातेः ? तद्धि द्रव्ये, न जातौ; अतद्रूपत्वात्तस्याः । न'दोषः; तद्रूपत्वाज्जातेः । कथं तद्रूपत्वं जातेः ? तद्धि जैना जानन्ति । वयं तु लक्ष्यसिद्धौ सिद्धपरमतानुवादिनः । न चैवमतिप्रसङ्गः, लक्ष्यानुसारित्वान्न्यायस्येति । एवमन्यापि व्यवस्थोह्या ।

  इति काव्यालंकारसूत्रवृत्तौ प्रायोगिके
  पञ्चमेऽधिकरणे प्रथमोऽध्यायः॥

त्वमुपपद्यते । संख्याया द्रव्यधर्मत्वेन जातिधर्मत्वाभावादिति शङ्कते- अथ कथमिति । जातेर्द्रव्याभिन्नत्वान्नायं दोष इति परिहरति-- न दोष इति । जातिव्यक्त्योरभेद एव कुत इति शङ्कते--- कथं तद्रूपत्वमिति । जात्यपलापवादिनो जैनाः प्रष्टव्या इत्याह--" जैना इति। अपसिद्धान्तशङ्कामवधीरयति वयं त्विति । न वयं जातिमपलप्यान्यापोहवादं समर्थयामहे, किंतु सिद्धं परमतमनूद्य प्रयोगं प्रतिष्ठापयामः । एवं तर्हि यस्य कस्यचिन्मतमवलम्ब्य यत्किचिदपि समर्थयितुं शक्यत इत्यतिपसङ्गमाशङ्क्य परिहरत-- न चैवमिति । यथा पाणिनीये क्वचिज्जातिः क्वचिद्व्यक्तिरिति पक्षद्वयमवलम्ब्य लक्ष्यनिर्वाहः क्रियते तद्वदत्रापि परमतमनुसृत्य प्रयोगनिर्वाहः कृतः । प्रसिद्धे लक्ष्ये सति तदनुसारी न्यायोऽन्विष्यते; न तु न्यायोऽस्तीति लक्ष्यमन्वेषणीयम् , लक्ष्यानुसारित्वान्न्यायस्येति । एवमन्या व्यवस्था प्रयोगमर्यादा स्वयं बुद्धिमद्भिरूहनीया ।

इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृत्ति-

व्याख्यायां काव्यालकारकामधेनौ प्रायोगिके

पञ्चमेऽधिकरणे प्रथमोऽध्यायः॥