पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अ. १.
१५३
कामधेनुसहिता।

 यथा--- 'कमलस्य कंदः' इति । कमलेन संबद्धा कमलिनी तस्याः कंद इति संबन्धसंबन्धः । तेन कदलीकाण्डादयो व्याख्याताः।

अतिप्रयुक्तं देशभाषापदम् ॥ १३ ॥

 अतीव कविभिः प्रयुक्तं देशभाषापदं प्रयोज्यम् ।

 यथा--'योषिदित्यभिललाष न हालाम्।' इत्यत्र हालेति देशभाषापदम् ।

 अनतिप्रयुक्तं तु न प्रयोज्यम् ।

 यथा- 'कङ्केलीकाननालीरविरलविलसत्पल्लवा नर्तयन्तः।' इत्यत्र कङ्केलीपदम् ।

लिङ्गाध्याहारौ ॥ १४ ॥

 लिङ्गं च अध्याहारश्च लिङ्गाध्याहारौ अतिप्रयुक्तौ प्रयोज्याविति ।

 लिङ्गं यथा- 'वत्से मा बहु निःश्वसीः कुरु सुरागण्डूषमेकं शनैः।' इत्यादिषु गण्डूषशब्दः पुंसि भूयसा प्रयुक्तः न स्त्रियाम् , आम्नातोऽपि स्त्रीत्वे।

 अध्याहारो यथा--

 'मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा ।

 वाहिनीजलभरः कुलिशं वा स्वस्ति तेऽस्तु लतया सह वृक्ष ॥'

 अत्र हि धाक्षीदित्यादीनामध्याहारोऽन्वयप्रयुक्त इति ।


 संबन्धेति । संबन्धपारम्पर्येऽपि षष्ठी भवतीत्यर्थः । कदली हि समुदायस्तस्या गर्भस्तत्र काण्डमिति संबन्धसंबन्ध इति ।

 अतिप्रयुक्तमिति | अतीव प्रयुक्तं प्रायशः प्रयुक्तम् । देशव्यवस्थिता भाषा देशभाषा, तत्र सिद्धं पदं देशभाषापदं देश्यं पदमित्यर्थः । अतिना व्यावर्त्यं कीर्तयति--- अनतीति । कङ्केलिरशोकः ।

 लिङ्गाध्याहाराविति । अतिप्रयुक्तमित्यनुवर्तते । न स्त्रियामिति । 'शुण्डाग्रभागे गण्डूषा द्वयोस्तु मुखपूरणे' इति स्त्रीत्वेऽप्याम्नातः स्त्रियां न प्रयुज्यते । मा भवन्तमिति । धाक्षीदित्यत्र आदिपदेन भाङ्क्षीत् , छैत्सीत् , भैत्सीत्

20