पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४२
[अधि. ४.
काव्यालंकारसूत्रवृत्तिः।

 सोच्छ्वासं मरणम्' 'द्विजो भूमिबृहस्पतिः' इत्येवमादिष्वेकगुणहानिकल्पना व्याख्याता ।

 व्यतिरेकाविशेषोक्तिभ्यां व्याजस्तुतिं भिन्नां दर्शयितुमाह----

संभाव्यविशिष्टकर्माकरणान्निन्दास्तोत्रार्था व्याजस्तुतिः ॥ २४ ॥

 अत्यन्तगुणाधिको विशिष्टः, तस्य च कर्म विशिष्टकर्म, तस्य संभाव्यस्य कर्तुं शक्यस्य अकरणानिन्दा विशिष्टसाम्यसंपादनेन स्तोत्रा- र्था व्याजस्तुतिः।

 यथा-

  'बबन्ध सेतुं गिरिचक्रवालै- .
   र्विर्भेद सप्तैकशरेण तालान् ।
  एवंविधं कर्म ततान राम-
   स्त्वया कृतं तन्न मुधैव गर्वः ॥'

 व्याजस्तुतेर्व्याजोक्तिं भिन्नां दर्शयितुमाह-

व्याजस्य सत्यसारूप्यं व्याजोक्तिः ॥ २५ ॥


'कुसृतिर्निकृतिः शाट्यम्' इत्यमरः । मूर्तिमत्येवेत्यत्रामूर्तत्वनिवृत्तिः' सोच्छ्वासमित्यत्रानुच्छ्वासतानिवृत्तिः, भूमिबृहस्पतिरित्यत्राभौमत्वनिवृत्तिश्च प्रतिपाद्यत इत्येकगुणहानिकल्पना अवगन्तव्या ।

 व्याजस्तुतिं व्याख्यातुं प्रसङ्गं परिकल्पयति-व्यतिरेकेति । व्याचष्टे--अत्यन्तेति । विशिष्टो रामादिरुपमानभूतस्तस्य कर्म सेतुबन्धनादि । तस्य कर्तुं शक्यस्य कर्मणोऽकरणाद्वर्णनीयस्य निन्दा रामादिसाम्यापादनात् स्तुतिपर्यवसायिनी व्याजस्तुतिः । बबन्धेति । त्वं राम एवासीति तात्पर्यम् । निन्दाव्याजेन स्तुतिरूपत्वात् व्यतिरेकविशेषोक्तिभ्यां भेदः ।

 व्याजोक्तिं व्याकर्तुमाह--- व्याजस्तुतेरिति । व्याचष्टे---- व्याज-