पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अ. ३.
१४१
कामधेनुसहिता।

  विषमुपहितं चिन्ताच्याजान्मनस्यापि कामिनां
   चतुरललितैर्लीलातन्त्रैस्तवार्धविलोकितैः ॥'

  व्यतिरेकाद्विशेषोक्तेर्भेदं दर्शयितुमाह-

एकगुणहानिकल्पनायां साम्यदार्ढ्यं विशेषोक्तिः ॥ २३ ॥

 एकस्य गुणस्य हानेः कल्पनायां शेषैर्गुणैः साम्यं यत् , तस्य दार्ढ्यं विशेषोक्तिः । रूपकं चेदं प्रायेणेति ।

 यथा-

 ‘भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ।'

 'द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम् ।'

 'इयं ह्यकमला लक्ष्मीः ।'

 'हस्ती हि जङ्गमं दुर्गम्' इति ।

 जङ्गमशब्दस्य स्थावरत्वनिवृत्तिप्रतिपादनपरत्वादेकगुणहानिकल्पनैव । एतेन 'वेश्या हि नाम मूर्तिमत्येव निकृतिः' 'व्यसनं हि नाम

कलङ्कित्वगुणेनोपमेयस्यार्थादकलङ्कित्वलक्षणं गुणातिरेकित्वमिति व्यतिरेकः । उपमानगतगम्यमानगुणप्रयुक्तं व्यतिरेकमुदाहरति--कुवलयवनमिति । कुवलयवनमध्यादिषु प्रत्याख्याननिन्दनादिभिरवगम्यमानेन निकर्षहेतुना चतुरललितलीलातन्त्रत्वराहित्यलक्षणेन गुणेनार्धविलोकितेषु चतुरललितलीलातन्त्रत्वरूपं गुणातिरेकित्वं शाब्दमपि प्रकृष्टतया प्रतिष्ठापितं भवतीति गम्यमानगुणप्रयुक्तो व्यतिरेकः । अर्थान्तरन्यासे व्यतिरेको विपक्षव्यावृत्तिः । अत्र तु गुणाधिक्यमिति भेदः ।

 विशेषोक्तिं विवेक्तुमाह-व्यतिरेकादिति । एकस्येति । अर्थादुपमेयगतस्य । हानिः लोपः । अवर्जनीयतया रूपकमपि संभवतीत्याह-रूपकमिति । अतैलपूरा इति, असिंहासनमिति, अकमलेत्यत्रैकगुणहानिकल्पना सिध्यति । ननु जङ्गममित्येकगुणहानिकल्पनाया अप्रतीतेः कथं विशेषोक्तिरिति तत्राह--जङ्गमशब्दस्येति । समर्थितामेकगुणहानिकल्पनामन्यत्रातिदिशति- एतेनेति ।