पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अ. ३.
१३९
कामधेनुसहिता।

 यथा--

 'अत्युच्चपदाध्यासः पतनायेत्यर्थशालिनां शंसत् ।

 आपाण्डु पतति पत्रं तरोरिदं बन्धनग्रन्थेः॥'


 पततीति क्रिया । तस्याः स्वं पतनम् । तदर्थः अत्युच्चपदाध्यासः। तयोरन्वयः अत्युच्चपदाध्यासः पतनायेति । तस्य ख्यापनम् अर्थशालिनां शंसदिति।

 इदं च नार्थान्तरन्यासः; स तु यथाभूतस्तमाह--

उक्तसिद्ध्यै वस्तुनोऽर्थान्तरस्यैव न्यसनमर्थान्तरन्यासः ॥ २१ ॥

 उक्तसिद्ध्यै उक्तस्यार्थस्य सिद्ध्यर्थं वस्तुनो वाक्यार्थान्तरस्यैव न्यसनमर्थान्तरन्यासः । वस्तुग्रहणात्पदार्थस्य हेतोर्न्यसनं नार्थान्तरन्यासः। यथा-इह नातिदूरगोचरमस्ति सरः कमलसौगन्ध्यात् ' इति । अर्थान्तरस्यैवेति वचनम् , यत्र हेतुर्व्याप्तिगूढत्वात् कथंचित्प्रतीयते तत्र यथा स्यात् । यद्यत् कृतकं तत्तदनित्यमित्येवंप्रायेषु मा भूदिति ।


अविवेचितः हेतुदृष्टान्तयोर्विभागस्तस्य दर्शनाद्विवेचनात् , निगूढहेतुदृष्टान्तदर्शनरूपत्वान्निदर्शनमित्यर्थः । उदाहरति-- अत्युच्चेति । अर्थशालिनाम् अर्थोल्लेखशालिनां धनशालिनां वा । लक्ष्यलक्षणयोरानुकूल्यमुन्मीलयति-पततीति क्रियेति

 अर्थान्तरन्यासं समर्थयितुं सूत्रसंगतिं सूचयति-- इदं चेति । उक्तस्य वाक्यार्थस्य सिद्ध्यै । वाक्यार्थान्तरस्य अन्यस्य वाक्यार्थस्यैव । वस्तुग्रहणप्रयोजनं प्रस्तौति-- वस्त्विति । प्रत्युदाहरणं प्रदर्शयति-- यथेति । अत्र कमलसौगन्ध्यादिति हेतोः पदार्थरूपत्वात् तस्य न्यसनं नार्थान्तरन्यासः। अवधारणप्रयोजनमभिधत्ते--- अर्थान्तरस्यैवेति वचनमिति । यत्र वस्तुतो हेतुरूपमेवार्थान्तरं तद्व्याप्तिस्तु यत्नगौरवेण प्रतीयते, तत्रालंकारता यथा स्यात् , प्रसिद्ध व्याप्तिस्थले तु मा भूदित्येवमर्थमेवकारकरणमित्यर्थः । उदाहर्तुमाह -- उदाहर