दीपकम् ।
तत्त्रैविध्यमादिमध्यान्तवाक्यवृत्तिभेदात् ॥ १९ ॥
तत् त्रिविधं भवति, आदिमध्यान्तेषु वाक्येषु वृत्तेर्भेदात् ।
यथा--
'भूष्यन्ते प्रमदवनानि बालपुष्पैः
कामिन्यो मधुमदमांसलैर्विलासैः ।
ब्रह्माणः श्रुतिगदितैः क्रियाकलापै
राजानो विरलितवैरिभिः प्रतापैः॥'
{{gap}'बाष्पः पथिककान्तानां जलं जलमुचा मुहुः ।
विगलत्यधुना दण्डयात्रोद्योगो महीभुजाम् ॥'
'गुरुशुश्रूषया विद्या मधुगोष्ठया मनोभवः ।
उदयेन शशाङ्कस्य पयोधिरभिवर्धते ॥'
दीपकवन्निदर्शनमपि संक्षिप्तमित्याह--
क्रिययैव स्वतदर्थान्वयख्यापनं निदर्शनम् ॥ २० ॥
क्रिययैव शुद्धया स्वस्यात्मनस्तदर्थस्य चान्वयस्य संबन्धस्य ख्यापनं संलुलितहेतुदृष्टान्तविभागदर्शनात् निदर्शनम् ।
रेषु प्रसङ्गात् संबन्धोऽनुषङ्गः ।
तद्भेदमाह-तत्त्रैविध्यमिति । भूष्यन्त इत्यत्र आदिदीपकम् । ब्रह्माणः ब्राह्मणाः । बाष्प इत्यत्र मध्यदीपकम् । गलनं बाष्पजलयोः स्यन्द, दण्डयात्रोद्योगे नाशः । गुरुशुश्रूषयेत्यत्र अन्तदीपकम् । एवमेव कारकदीपकमप्यूहनीयम् ।
निदर्शनं दर्शयितुमाह-- दीपकवदिति । शुद्धया अनन्यसहायया क्रिययैवावृत्तिरहितयेत्यर्थः । स्वस्य तदर्थस्य सा क्रिया अर्थः प्रयोजनं यस्य तत्तदर्थं स्वप्रयोजनकमर्थान्तरमित्यर्थः । तयोः स्वतदर्थयोरन्वयस्य संबन्धस्य ख्यापनं निदर्शनम् । निदर्शनपदार्थं निर्वक्ति-- सलुलितेति । संलुलितः