पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अ. ३.
१३१
कामधेनुसहिता।

 अत्र नेत्रधर्मावुन्मीलननिमीलने सादृश्याद्विकाससंकोचौ लक्षयतः।

 इह च निरन्तरनवमुकुलपुलकिता हरति माधवी हृदयम् ।

 मदयति च केसराणां परिणतमधुगन्धि निःश्वसितम् ॥'

 अत्र च निःश्वसितमिति परिमलनिर्गमं लक्षयति ।

 'संस्थानेन स्फुरतु सुभगः स्वार्चिषा चुम्बतु द्याम् ।'

 'आलस्यमालिङ्गति गात्रमस्याः ॥'

 'परिम्लानच्छायामनुवदति दृष्टिः कमलिनीम् ।'

 'प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः।'

 'ऊरुद्वन्दं तरुणकदलीकाण्डसब्रह्मचारि ।'

 इत्येवमादिषु लक्षणार्थो निरूप्यत इति लक्षणाया झटित्यर्थप्रतिपत्तिक्षमत्वं रहस्यमाचक्षत इति ।

 असादृश्यनिबन्धना तु लक्षणा न वक्रोक्तिः ।

 यथा- 'जरठकमलकन्दच्छेदगौरैर्मयूखैः ।'


कोचेति ऋजुवृत्त्या वक्तव्ये तत्सादृश्यादुन्मिमील निमिमीलेति नेत्रक्रियाध्यवसायवक्रिम्णोक्तिरिति वक्रोक्तिः । लक्ष्यलक्षणयोर्मैत्रीमासूत्रयति- अत्र नेत्रेति । अतस्मिंस्तत्त्वाध्यारोपो रूपकम् । विषयनिगरणेन साध्यवसानलक्षणायां वक्रोक्तिरिति विवेकः । उदाहरणान्तराण्युपदर्शयति-इह चेति । वक्रोक्तिं दर्शयति अत्र चेति । मुकुलपुलकितेत्यत्र पुलकितत्वं माधव्या मुकुलैरावृतत्वं लक्षयतीत्यपि द्रष्टव्यम् । चुम्बतु द्यामिति चुम्बनं द्योसम्बन्धम् , गात्रमालिङ्गतीति आलिङ्गनम् आलस्यवैशिष्ट्यं गात्रस्य, अनुवदतीत्यत्रानुवादः कमलिनीसादृश्यम् , मैत्री च आमोदसंक्रान्तिम् , सब्रह्मचारीति कदलीकाण्डसमानतां च लक्षयतीत्येवमादिषु प्रयोगेषु लक्षणार्थो निरूप्यते । लक्षणाया इति । यत्र सादृश्यलक्षणा सहृदयहृदयेष्वविलम्बेन लक्ष्यार्थप्रतिपत्तिमुद्भावयितुं प्रगल्भते, तत्र वक्रोक्तिरलंकार इति रहस्यमिति लक्षणाविद आचक्षत इत्यर्थः । सादृश्यपदव्यावर्त्यं कीर्तयति----असादृश्येति । संबन्धान्तरनिबन्धना तु लक्षणा वक्रोक्तिर्न भवतीत्यर्थः । तदेव दर्शयति-यथा जरठेति । सामीप्यमत्र धर्मधर्मिभावसंबन्धः ।