पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२८
[अधि. ४.
काव्यालंकारसूत्रवृत्तिः।

 यथा-

  'न केतकीनां विलसन्ति सूचयः
   प्रवासिनो हन्त हसत्ययं विधिः ।
  तटिल्लतेयं न चकास्ति चञ्चला
   पुरः स्मरज्योतिरिदं विवर्तने ॥

 वाक्यार्थयोस्तात्पर्यात् ताद्रूप्यमिति न रूपकम् ।

 तत्तु कीदृशमित्याह--

उपमानेनोपमेयस्य गुणसाम्यात्तत्त्वारोपो

रूपकम् ॥ ६ ॥

 उपमानेन उपमेयस्य गुणसाम्यात् तत्त्वस्य अभेदस्य आरोपणमारोपो रूपकम् । उपमानोपमेययोरुभयोरपि ग्रहणं लौकिक्याः कल्पितायाश्चोपमायाः प्रकृतित्वमत्र यथा विज्ञायतेति ।

 यथा--

  'इयं गेहे लक्ष्मीरियममृतवर्तिनयनयो-
   रसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः ।


मेयस्यापलापः अतस्मिंस्तत्त्वाध्यारोपेण अपह्नुतिरिति लक्षणार्थः । न केतकीनामिति । सूचयः कुड्मलाः । केतकीमुकुले सूचिः सेविन्यां पिशुने तु ना।' इति हलायुधः । केतकीसूचिविलासतटिल्लताविलासयोरुपमेययोरुपमानभूतविधिहासस्मरज्योतिर्विवर्तनाध्यारोपेण तयोरपलापादपह्नुतिः । आरोपरूपत्वाविशेषात् कथमपह्नुते रूपकाद्भेद इत्याशङ्क्य भेदं दर्शयति-- वाक्यार्थयोरिति । अपह्नुतौ वाक्यार्थयोरार्थिकं ताद्रूप्यम् , रूपके तु पदार्थयोः शाब्दं ताद्रूप्यमिति भेदः ।

 रूपकं निरूपयितुमाह-तत्तु कीदृशमिति व्याचष्टे-उपमानेनेति । लौकिककल्पितोपमाप्रकृतिकत्वं रूपकस्य निरूपयितुमुपमानोपमेययोर्ग्रहणं कृतमित्याह- उपमानेति । उदाहरति--- इयं गेहे लक्ष्मीरिति । अत्र इयमिति सर्वनाम्ना सीतां निर्दिश्य तत्र लक्ष्मीत्वममृतवर्तित्वम् , अस्याः स्पर्शे चन्दनरस-