पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अ. ३.
१२७
कामधेनुसहिता।

 समासोक्तेरप्रस्तुतप्रशंसाया भेदं दर्शयितुमाह---

किंचिदुक्तावप्रस्तुतप्रशंसा ॥ ४ ॥

 उपमेयस्य किंचित् लिङ्गमात्रेण उक्तौ समानवस्तुन्यासः अप्रस्तुतप्रशंसा ।

 यथा-

  'लावण्यसिन्धुरपरैव हि केयमत्र
   यत्रोत्पलानि शशिना सह संप्लवन्ते ।
  उन्मज्जति द्विरदकुम्भतटी च यत्र
   यत्रापरे कदलिकाण्डमृणालदण्डाः ॥

 'यत्रोत्पलानि शशिना सह' इति, 'द्विरदकुम्भतटी च यत्र' इति, 'यत्रापरे' इति च अप्रस्तुतस्यार्थस्य प्रशंसनमप्रस्तुतप्रशंसा ।

 अपह्नुतिरपि ततो भिन्नेति दर्शयितुमाह---

समेन वस्तुनान्यापलापोऽपह्नुतिः ॥ ५ ॥

 समेन तुल्येन वस्तुना वाक्यार्थेन अन्यस्य वाक्यार्थस्य अपलापो निह्नवो यः तत्वाध्यारोपणाय, असावपह्नुतिः ॥


वंशो बर्बूरो वा 'करीरोऽस्त्री दन्तिदन्तमूले चक्रकरे घटे। सल्लक्यामपि बर्बूरे काचे वंशे तदङ्कुरे ॥' इत्यमरशेषः । अव्युत्पन्नार्थिनाम् अर्थिपदार्थव्युत्पत्तिरहितानाम् । अत्र करीरस्य मरुस्थितिश्लाघनेन कल्पवृक्षाणां मेरुस्थितिनिन्दनेन च तदुपमेययोः परोपकारप्रवणतद्विमुखयोः श्लाघानिन्दे समस्योक्ते इति समासोक्तिः ।

 अप्रस्तुतप्रशंसां प्रस्तोतुमाह- किंचिदिति । लिङ्गमात्रेणोक्तौ एकदेशेनोपादाने । लावण्येति । अत्र लावण्यपदार्थेनैकदेशेनोपमेयानां नयनादीनामुक्तावुत्पलादीनामप्रस्तुतानां प्रशंसनादप्रस्तुतप्रशंसा नामालंकारः ॥

अपह्नुतिमवगमयितुमाह--- अपह्नुतिरिति । ततः प्रतिवस्तुनामालङ्कारात्, भिन्नेत्यर्थः । समेनेति । वाक्यार्थभूतेनोपमानेनान्यस्य वाक्यार्थभूतस्योप-