चन्द्रिकायामुन्निद्रत्वमरविन्दस्येत्यनुपपत्तिः । नन्वर्थविरोधोऽयमस्तु; किमुपमादोषकल्पनया? न; उपमायाम् अतिशयस्पष्टत्वात् ।
कथं तर्हि दोष इत्यत आह-
न विरुद्धोऽतिशयः ॥ २१ ॥
विरुद्धस्य अतिशयस्य संग्रहो न कर्तव्य इति अस्य सूत्रस्य तात्पर्यार्थः।
तानेतान् षडुपमादोषान् ज्ञात्वा कविः परित्यजेत् ।
इति काव्यालंकारसूत्रवृत्तौ आलंकारिके
चतुर्थेऽधिकरणे द्वितीयोऽध्यायः ॥
न्तर्मध्ये स्मितच्छाया उन्निद्रस्यारविन्दस्य मध्ये मुग्धा मनोज्ञा चन्द्रिकेव चकास्ति । अत्रासंभवमवगमयति-चन्द्रिकायामिति । असंभवस्यार्थदोषत्वमपाकर्तुमनुभाषते-नन्विति । उन्निद्रारविन्दतन्मध्यवर्तिचन्द्रिकायोर्विरोधित्वादयमसंभवोऽर्थदोषोऽस्तु ; नोपमादोषत्वं कल्पनीयमित्यर्थः । परिहरति-नेति । विकासिनो मुखस्य स्मितविकासे वर्णनीये तदुपमानभूतया उन्निद्रारविन्दसंबन्धिन्या चन्द्रिकया सादृश्ये सति कस्यचिदतिशयस्याभिमतत्वादित्यर्थः ।
{{gap}}कथं तर्हीति । इष्टश्चेदयमतिशयः, तर्हि गुण एवायम् ; न तु दोष इत्यर्थः । परिहरति-नेति । अतिशयो विरुद्ध इति यतः, अतो दोष एवेत्यर्थः । निर्वृत्तमर्थं सूत्रस्य निगमयति-विरुद्धस्येति । प्रदर्शितानामेषामुपमादोषाणां परित्याग एव फलमित्याह- तानेतानिति ।
इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृत्ति
व्याख्यायां काव्यालंकारकामधेनौ आलकारिके
चतुर्थेऽधिकरणे द्वितीयोऽध्यायः॥