पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अ. २.
१२३
कामधेनुसहिता।

न्नुपमाने प्रयुक्ते उपामानान्तरप्रयोगो न कंचिदर्थविशेषं पुष्णाति । एतेन 'बलसिन्धुः सिन्धुरिव क्षुभितः' इति प्रत्युक्तम् । ननु सिन्धुशब्दस्य द्विः- प्रयोगात्पौनरुक्त्यम् । न ; अर्थविशेषात् : बलं सिन्धुरिव वैपुल्यात् बलसिन्धुः सिन्धुरिव क्षुभित इति क्षोभसारूप्यात् । तस्मादर्थभेदान्न पौनरु- क्त्यम् । अर्थपुष्टिस्तु नास्ति । सिन्धुरिव क्षुभित इत्यनेनैव वैपुल्यं पतिपत्स्यते । उक्तं हि-'धर्मयोरेकनिर्देशेऽन्यस्य संवित्साहचर्यात् ' इति ।

अनुपपत्तिरसंभवः ॥ २० ॥

 अनुपपत्तिः अनुपपन्नत्वम् उपमानस्य असंभवः ।

 यथा-

 'चकास्ति वदनस्यान्तः स्मितच्छाया विकासिनः।

 उन्निद्रस्यारविन्दस्य मध्ये मुग्धेव चन्द्रिका ॥'

रादयः शब्दाः सितपदसमभिव्याहारेण सितिमनि शृङ्खलितशक्तयो न किमपि गुणान्तरमुदीरयितुमुत्सहन्ते। यदि कनकफलचतुरश्रत्वं तद्गौरत्वमिव कर्पूरादिपदैः सितिमगुणोऽवगम्यमानः स्वसहचरितमपि चर्वणीयत्वं परिष्कारत्वं व्यापनशीलत्वं च गुणान्तरमवगमयेत् , तदा भवतु पुष्टार्थत्वम् । उक्तं दूषणमन्यत्राप्यतिदिशति-तेनेति । नन्वसत्यर्थभेदे सिन्धुशब्दस्य द्विरुक्तौ पौनरुक्त्यमिति वक्तव्यमिति शङ्कामनुभाषते--- नन्विति । दूषयति--- नेति । हेतुमाह-- अर्थेति । अर्थभेदादित्यर्थः । अर्थभेदमेव समर्थयते-- बलं सिन्धुरिवेति । बलसिन्धुरित्यत्र वैपुल्यं प्रतिपाद्यम् । अन्यत्र तु क्षोभसारूप्यमिति भेदः । निगमयति--तस्मादिति । अपुष्टार्थत्वं स्पष्टयति--- अर्थपुष्टिस्त्विति। सिन्धुक्षोभोऽत्र गम्यमानः स्वसहचरितं वैपुल्यमप्यवगमयतीत्यत्र सूत्रं संवादयति - उक्तं हीति । 'इह राजति राजेन्दुरिन्दुः क्षीरनिधाविव' इत्यत्र द्वयोरिन्दुशब्दयोः श्रेष्ठचन्द्रवाचकत्वेनैकार्थ्याभावान्न अपुष्टार्थत्वमित्यवगन्तव्यम् ।

 असंभवं व्याख्यातुमाह--अनुपपत्तिरिति । अनुपपन्नत्वमिति । उपपत्तिशून्यत्वमनुपपत्तिरित्यर्थः । उदाहरति-चकास्तीति । विकासिनो वदनस्या-