पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२२
[अधि. ४.
काव्यालंकारसूत्रवृत्तिः।

असादृश्यहता ह्युपमा तन्निष्ठाश्च कवयः ॥ १७ ॥

 असादृश्येन हता असादृश्यहता उपमा । तन्निष्ठा उपमानिष्ठाश्च कवय इति ।

उपमानाधिक्यात्तदपोह इत्येके ॥ १८ ॥

 उपमानानामाधिक्यात् तस्य असादृश्यस्य अपोह इत्येके मन्यन्ते । यथा- 'कर्पूरहारहरहाससितं यशस्ते ।' इति । अत्र कर्पूरादिभिरुपमा- नैर्बहुभिः सादृश्यं यशसः सुस्थापितं भवति, तेषां शुक्लगुणातिरेकात् ।

नापुष्टार्थत्वात् ॥ १९ ॥

 उपमानाधिक्यादपोह इति यदुक्तम् । तन्न अपुष्टार्थत्वात् एकस्मि-


 सादृश्यैकसारायामुपमायां परां काष्ठामातिष्ठभानैः कविभिरसादृश्यमवश्यमपोहनीयमिति शिक्षयितुं सूत्रमुपक्षिपति---- असादृश्येति । उपमानिष्ठाः उपमापरायणा इत्यर्थः ।

 परपक्षं प्रतिक्षेप्तुं पूर्वपक्षसूत्रमुपक्षिपति-उपमानेति । तदपोहः तस्य असादृश्यस्य अपोहः परिहारः । उदाहरति- कर्पूरेति । श्वेतिमातिशयविशि- ष्टतया वर्णनीये यशसि सितिमगुणाप्रतीतौ वैसादृश्यशङ्कायां सितिमगुणातिशयविशिष्टैर्बहुभिरुपमानैः सादृश्यदृढीकरणे उपमेये शौक्त्यगुणातिरेकावगमात् वैसादृश्यमपोह्यत इत्यभिसंधाय व्याचष्टे- अत्रेति । अत्र हेतुमाह--- तेषामिति

 बाहुल्येऽप्युपमानानामर्थप्रकर्षाधायकत्वाभावान्नायं पक्षो युज्यत इति दूषयितुं सूत्रमनुभाषते-- नापुष्टार्थत्वादिति । परपक्षमनूद्य प्रतिक्षिपति-- उपमानेति । अत्र हेतुमुपन्यस्यति--- अपुष्टार्थत्वादिति । हेतुं विवृणोति--- एकस्मिन्निति । एकेनैवोपमानेन सितिमगुणावगमे सिद्धे पुनः सहस्रमप्युपमानानि यशसि सितिम्नः परं प्रकर्षमाधातुं न पारयन्तीत्यर्थः । ननु कर्पूरादयः शब्दा यशसि सितिमानं प्रतिपादयन्तः, सहृदयचर्वणीयत्वं परिष्कारत्वं व्यापकत्वं च गुणान्तरमवगमयन्ति ; अतोऽस्त्येवार्थपरिपोष इति चेत् , मैवम् ; कर्पू-