यथा- 'सैन्यानि नद्य इव जग्मुरनर्गलानि ।'
इष्टः पुंनपुंसकयोः प्रायेण ॥ १३ ॥
पुंनपुंसकयोरुपमानोपमेययोर्लिङ्गभेदः प्रायेण बाहुल्येन इष्टः ।
यथा--- 'चन्द्रमिव मुखं पश्यति' इति । 'इन्दुरिव मुखं भाति' इत्येवंप्रायं तु नेच्छन्ति ।
लौकिक्यां समासाभिहितायामुपमाप्रपञ्चे च ॥ १४ ॥
लौकिक्यामुपमायां समासाभिहितायामुपमायामुपमाप्रपञ्चे चेष्टो लिङ्गभेदः प्रायेणेति ।
लौकिक्यां यथा--- 'छायेव स तस्याः ' 'पुरुष इव स्त्री' इति ।
समासाभिहितायां यथा--'भुजलता नीलोत्पलसदृशी' इति ।
उपमाप्रपञ्चे यथा-
'शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥
एवमन्यदपि प्रयोगजातं द्रष्टव्यम् ।
उक्तयुक्त्या पुंनपुंसकयोर्दोषत्वप्रसङ्गे लिङ्गभेदस्य क्वचिदपवादं दर्शयितुमाह----इष्ट इति । एवंप्रायमिति । एवंप्रायं तु नेच्छन्तीत्यात्मनस्तत्रौदासीन्यमवगमयति । यत्र हि लिङ्गभेदेऽपि विशेषणमुभयान्वयक्षमम् , तत्र न दोषः । यत्र तु विशेषणमेकत्रान्वितं सदितरत्र नान्वयक्षमम् , तत्र दोष इति तात्पर्यम् ।
लिङ्गान्तरेऽप्यपवादं दर्शयितुमाह-- लौकिक्यामिति । लोकतः प्रसिद्धा उपमा लौकिकी । समासेनाभिहिता लुप्ता । उपमाप्रपञ्चः प्रतिवस्तुप्रभृतिः । तत्र लिङ्गभेदः प्रायेणेष्टः । उदाहरणानि दर्शयति- लौकिक्यामिति । उदाहरणानि स्पष्टार्थानि । शुद्धान्तदुर्लभमित्यत्र प्रतिवस्तूपमा । एवमिति । 'नेदं नभोमण्डलमम्बुराशिः' इत्याद्यपह्नुत्यादौ द्रष्टव्यम् ।