पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
xiv

कारस्यालंकारान्तरयोगे संसृष्टिसंकरतद्भेदान्बहूनभ्युपगच्छन्ति । उपमाप्रपञ्चत्वं च विरोधादीनां कथमित्येतदतिनिगूढ रहस्यम् । अपि नाम समासोक्त्यादिन्यायेन उभयोरर्थयोरुपमानोपमेयभावकल्पनं सहृदयहृदयसंवादि ? इत्थं च वामनमते त्रिंशदर्थालंकारा इति सिद्धम् | काव्यादर्शे तु ' स्वभावाख्यानमुपमा--' इत्यादिना पञ्चत्रिंशदर्थालंकारा अभ्युपगता. । पर तु 'ते चाद्यापि विकल्प्यन्ते कस्तान्कार्त्स्न्येन वक्ष्यति' इति परिगणनस्य प्रायिकत्वं तत्रैवाभिहितम् । रुद्रटस्तु 'अर्थस्थालंकारा वास्तवमौपम्यमतिशयः श्लेषः । एषामेव विशेषा अन्ये तु भवन्ति निःशेषाः' इति प्राधान्येन चतुर एवालंकारानभ्युपगच्छति । मम्मटः पुनः संसृष्टिसंकराभ्यां सह उपमादीनेकषष्टिमलंकारानभिप्रैति । सर्वस्वकारमते तु'द्वासप्ततिरर्थालंकाराः । कुवलयानन्दकारः परम् ‘इत्थं शतमलंकारा लक्ष- यित्वा निदर्शिताः । प्राचामाधुनिकानां च मतान्यालोच्य सर्वतः' इत्युक्त्वा, रसवदादिकांश्चतुरः भावोदयादींस्त्रीन् , प्रमाणालंकारानष्टौ, संसृष्टिसंकरौ च द्वावङ्गीकरोतीत्याहत्य तन्मते सप्तदशाधिकशतमर्थालंकारा इति सिध्यति । अर्वाचीनाश्च केचिन्मम्मटमतमाद्रियन्ते; अपरे च सर्वस्वसरणिम् , कतिपये च कुवलयानन्दरीतिम् । चमत्कारैकजीवातुत्वादलंकाराणां यत्र चमत्कारविशेष उपलक्ष्यते, तत्र भिन्न एवालंकार इत्यातिष्ठमानाः, अत्र चमत्कारभेदोऽस्ति नास्तीति विवादेन तत्र तन्नान्तर्भाव पार्थक्यं च स्वस्वानुभवबलेन स्वेच्छया वा स्थापयन्त्यर्वाचीना आलंकारिकाः । स्वस्वानुभवसाक्षिके शपथैकनिर्णेयेऽस्मिन्विचारे पुनरस्मादृशामन्यतमपक्षावलम्बनं सर्वथा दुःशकमिति तत्तन्मताभिनन्दनमेव सांप्रतमिति प्रतिभाति । अर्थालंकारविषये च वामनादारभ्यैव प्राचामर्वाचां च लक्षणभेदेन एकम्य मते एकोऽलंकारः, स एव परस्य मते पर एव भवतीति स्पष्टमिदं विमर्शकानाम् ।

 पञ्चमे त्वधिकरणे वामनोऽयं द्वाभ्यामधिकरणाभ्यां काव्यसमयं शब्दशुद्धिं च निरूपयति । काव्यसमयनिरूपणं च नितरां संकुचितं न खलु तद्वयपदशमहंतीति प्रतिभाति । अर्वाचीनास्तु ' सतामप्यनुपनिबन्धः । असतां चोपनिबन्धः' इत्यारभ्य सुस्पष्टं बहून् काव्यसमयानभिदर्शयामासुः । शब्दशुद्धिविवेक-

1. अतिशयोक्तिभेदान्तरस्य गणने त्रयःसप्ततिः । 2. दृश्यन्तां वामनीयानि समासोक्त्यप्रस्तुतप्रशसादिलक्षणानि ।