पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अधि. २.
११९
कामधेनुसहिता।

 जात्याधिक्यरूपमधिकत्वं यथा- विशन्तु विष्टयः शीघ्रं रुद्रा इव महौजसः।

 प्रमाणाधिक्यरूपं यथा-

 पातालमिव नाभिस्ते स्तनौ क्षितिधरोपमौ ।

 वेणीदण्डः पुनरयं कालिन्दीपातसंनिभः ॥'

 धर्माधिक्यरूपं यथा-

 सरश्मि चञ्चलं चक्रं दधद्देवो व्यराजत।

 सबाडबाग्निः सावर्तः स्रोतसामिव नायकः ॥'

 सबाडवाग्निरित्यस्य प्रतिवस्तुन उपमेयेऽभावाद्धर्माधिक्यमिति ।

 अनयोर्दोषयोर्विपर्ययाख्यस्य दोषस्यान्तर्भावान्न पृथगुपादानम् । अत एवास्माकं मते षट् दोषा इति ।

उपमानोपमेययोर्लिङ्गव्यत्यासो लिङ्गभेदः ॥ १२ ॥

 उपमानस्योपमेयस्य च लिङ्गयोर्व्यत्यासो विपर्ययो लिङ्गभेदः।


मपि जात्यादिभिस्त्रिविधम् । तस्य क्रमेणोदाहरणानि दर्शयति-- जात्येति । विष्टयः कारवो भृत्या वा। 'विष्टिः कारौ कर्मकरे' इति वैजयन्ती । पातालमित्यादि स्पष्टम् । सबाडबाग्निः सावर्त इत्यत्राधिक्यमुपमाने दर्शयति-- सवाडवेति । अत्र सरश्मीति चक्रविशेषणवदावर्तविशेषणानुपादानान्न्यूनत्वमपि द्रष्टव्यम् । जातिप्रमाणहीनत्वाधिकत्वे पदार्थोपमायां दोषः, धर्मन्यूनत्वाधिकत्वे तु वाक्यार्थोपमायाम् । पदार्थोपमायां न धर्मन्यूनाधिकभावः संभवति, समानधर्मस्यैकत्वेन वाक्यार्थोपमायामिवानेकविशेषवैशिष्ट्यासंभवादिति द्रष्टव्यम् । विपर्ययाख्यस्येति । उपमेयधर्मस्य हीनत्वमधिकत्वं च विपर्ययः ; तदात्मकस्य दोषस्य हीनत्वाधिकत्वानतिरेकात् तत्रैवान्तर्भाव इति तन्निरूपणेनैव निरूपितप्रायत्वान्न पृथगभिधानं कृतमित्यर्थः । अस्माकमिति । मत इति शेषः ।

 लिङ्गभेदमुल्लिङ्गयितुमाह- उपमानोपमेययोरिति । सूत्रार्थविवरणोदाहरणे सुगमे एव । गङ्गाप्रवाह इव तस्य निरर्गला वाक्' इत्यादिषु स्त्रीपुंसयोरपि द्रष्टव्यः ।