पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११८
[अधि. ४.
काव्यालंकारसूत्रवृत्तिः।

बिम्बम्' इति व्याख्यातम् । अत्र कनकफलकस्य गौरत्वचतुरश्रत्वयोः साहचर्याच्चतुरश्रत्वश्रुत्यैव गौरत्वपतिपत्तिरिति ।

 ननु च यदि धर्मन्यूनत्वमुपमानस्य दोषः । कथमयं प्रयोगः-

  'सूर्यांशुसंमीलितलोचनेषु
   दीनेषु पद्मानिलनिर्मदेषु ।
  साध्व्यः स्वगेहेष्विव भर्तृहीनाः
   केका विनेशुः शिखिनां मुखेषु ॥' इति ?

 अत्र बहुत्वमुपमेयधर्माणामुपमानात् । न; विशिष्टानामेव मुखानामुपमेयत्वात् , तादृशेष्वेव केकाविनाशस्य संभवात् ।

तेनाधिकत्वं व्याख्यातम् ॥ ११ ॥

 तेन हीनत्वेन अधिकत्वं व्याख्यातम् --- जातिप्रमाणधर्माधिक्यमधिकत्वमिति ।


रमाह-- कनकफलकेति । उक्तं सूत्रार्थमुदाहरणे योजयति- अत्रेति । कनकफलकस्य चतुरश्रत्वश्रुत्या तत्सहचरितं गौरत्वमपि प्रतीयते, अव्यभिचारादित्यर्थः ॥

 धर्मन्यूनत्वस्योपमादोषत्वे प्रयोगविरोधमाशङ्कते-- ननु चेति । प्रयोगं प्रदर्शयति--सूर्येति । मुखेष्वित्युपमेयस्य लोचनसंमीलनदैन्यनिर्मदत्वानां धर्माणां बाहुल्यं प्रतीयत इति विरोधः । परिहरति---नेति । भर्तृहीनजनाश्रयत्वेन गृहेष्वपि दैन्यमवगम्यते । तादृशेषु गृहेषु साध्वीनामिव दैन्यविशिष्टेषु शिखिमुखेषु केकानां विलयो वक्तव्यः, अन्यथा तदसंभवात् । दैन्यं च नेत्रनिमीलननिर्मदत्वाभ्यां तदनुभावाभ्यामुपपादितमिति नास्ति धर्मन्यूनतेत्याह- विशिष्टानामिति । · धर्मागमे दुर्मदतिग्मरश्मिसंतापसंमीलितलोचनेषु । साध्व्यः स्वगेहेष्विव भर्तृहीना. केका विलीनाः शिखिनां मुखेषु ॥' इति विधान्तरं विधातुं न प्रबन्धकर्ता न प्रगल्भते; किंतु भर्तृहीनत्वस्य निर्मदत्वादेश्चोपपादकस्य भेदे ऽप्युभयत्र दैन्यमेव साधर्म्यमिति विवक्षितमिति न कश्चिद्विरोधः ।

 अधिकत्वं व्याख्यातुं सूत्रं व्याहरति- तेनेति । हीनत्वमिवाधिकत्व-