पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अधि. २.
११७
कामधेनुसहिता।

नीलजीमूतग्रहणेनैव तडित्प्रतिपाद्यते ; तन्न ; व्यभिचारात् ।

 अव्यभिचारे तु भवन्ती प्रतिपत्तिः केन वार्यते ; तदाह--

धर्मयोरेकनिर्देशेऽन्यस्य संवित्साहचर्यात् ॥ १० ॥

 धर्मयोरेकस्यापि धर्मस्य निर्देशेऽन्यस्य धर्मस्य संवित् प्रतिपत्तिर्भवति । कुतः ? साहचर्यात् । सहचरितत्वेन प्रसिद्धयोरवश्यमेकस्य निर्देशेऽन्यस्य प्रतिपत्तिर्भवति ।

 तद्यथा-

  निर्वृष्टेऽपि बहिर्घने न विरमन्त्यन्तर्जरद्वेश्मनो
   लूतातन्तुततिच्छिदो मधुपृषत्पिङ्गाः पयोविन्दवः ।
  चूडाबर्बरके निपत्य कणिकाभावेन जाताः शिशो-
   रङ्गास्फालनभग्ननिद्रगृहिणीचित्तव्यथादायिनः ।।

 अत्र मधुपृषतां वृत्तत्वपिङ्गत्वे सहचरिते; तत्र पिङ्गशब्देन पिङ्गत्वे प्रतिपन्ने वृत्तत्वप्रतीतिर्भवति । एतेन 'कनकफलकचतुरश्रं श्रोणि-

तटितमन्तरेणापि नीलजीमूतस्य सद्भावान्नैवमिति परिहरति-- तन्न व्यभिचारादिति।

 व्यभिचाराभावे तु सहचरितधर्मप्रतीतिरस्त्येवेति प्रदर्शयितुमनन्तरसूत्रमवतारयति-- अव्यभिचारे त्विति । व्याचष्टे-- धर्मयोरिति । कार्यत्वानित्यत्ववदविनाभूतयोर्धर्मयोरेकस्य ग्रहणेन अशाब्दस्याप्यन्यस्य प्रतिपत्तिर्भवति, तयोरव्यभिचारादिति वाक्यार्थः । उदाहरति-- तद्यथेति । निर्वृष्ट इति । बहिर्घने निर्वृष्टे निर्गतं वृष्टं वर्षणं यस्मात् तादृशि सत्यपि । जरद्वेश्मनः शिथिलगृहस्य । लूतास्तन्तुजालकराः कृमयः । 'लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः' इत्यमरः । तत्तन्तूनां ततीश्छिन्दन्तीति तथोक्ताः । मधुपृषत्पिङ्गाः मधुबिन्दुपिङ्गलाः । पयोबिन्दवो न विरमन्ति । विरतेऽपि वर्षे वेश्मबिन्दवो न विरमन्तीत्यर्थः । अत्रेति । मधुपृषतां वृत्तत्वपिङ्गत्वे सहचरिते अविनाभूते । तत्र पिङ्गशब्देनैव पिङ्गत्वप्रतिपत्तौ, अशाब्द्यपि वृत्तत्वप्रतीतिभवति । उदाहरणान्त-