पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११६
[अधि. ४.
काव्यालंकारसूत्रवृत्तिः।

 तान् क्रमेण व्याख्यातुमाह ---

जातिप्रमाणधर्मन्यूनतोपमानस्य हीनत्वम् ॥ ९॥

 जात्या प्रमाणेन धर्मेण चोपमानस्य न्यूनता या, तत् हीनत्वमिति ।

 जातिन्यूनत्वरूपं हीनत्वं यथा-'चाण्डालैरिव युष्माभिः साहसं परमं कृतम्'

 प्रमाणन्यूनत्वरूपं हीनत्वं यथा- 'वह्निस्फुलिङ्ग इव भानुरयं चकास्ति'

 उपमेयादुपमानस्य धर्मतो न्यूनत्वं यत्, तत् धर्मन्यूनत्वम् ।

 तद्रूपं हीनत्वं यथा-

  ‘स मुनिर्लाञ्छितो मौञ्ज्या कृष्णाजिनपटं वहन् ।
  व्यराजन्नीलजीमूतभागाश्लिष्ट इवांशुमान् ॥'

 अत्र मौञ्जीप्रतिवस्तु तटिन्नास्त्युपमान इति हीनत्वम् । न च कृष्णाजिनपटमात्रस्योपमेयत्वं युक्तम् , मौञ्ज्या व्यर्थत्वप्रसङ्गात् । ननु

 तत्र प्रथमोद्दिष्टं हीनत्वं प्रथयितुमाह- जातीति । व्याचष्टे--जात्येति । जातिर्बाह्मणत्वादिः । प्रमाणं परिमाणम् । धर्मः समानगुणः । एतेषामन्यतमेन न्यूनत्वमुपमानस्य हीनत्वम् । तत्राद्यमुदाहरति-- जातिन्यूनत्वरूपमिति । चाण्डालैरित्यत्र साहसकारित्वं साधर्म्यम् । जातिन्यूनत्वं स्फुटम् । वह्रिस्फुलिङ्ग इत्यत्र परिमाणन्यूनत्वमतिरोहितमेव । स मुनिरिति । नीलजीमूतेन कृष्णमेघेन भागे एकत्र प्रदेशे आश्लिष्टः । धर्मतो न्यूनत्वमुपमानस्य दर्शयति- अत्रेति । मौञ्ज्याः समानं वस्तु प्रतिवस्तु तटित् , सात्र नास्ति, उपमानविशेषणतया अनुपादानादित्यर्थः । ननु उपमाने यावद्दृष्टम् , तावदेव साधर्म्यमुपमेये विवक्षितम् । मौञ्जीलाञ्छनं तु स्वरूपकथनार्थमिति शङ्कां शकलयति-- न चेति । नीलजीमूतस्य तटित्साहचर्यात् तद्ग्रहणेनैव तटित्संवित्तिरप्युपलभ्यते; ततो न काचिन्न्यूनतेति शङ्कते--- नन्विति