गुणशब्दलोपे यथा--- 'शशीव राजा' इति ।
द्योतकशब्दलोपे यथा-- 'दूर्वाश्यामेयम्' इति । उभयलोपे यथा- 'शशिमुखी' इति । उपमानोपमेयलोपस्तूपमाप्रपञ्चे द्रष्टव्यः ।
स्तुतिनिन्दातत्त्वाख्यानेषु ॥ ७ ॥
स्तुतौ निन्दायां तत्त्वाख्याने चास्याः प्रयोगः ।
स्तुतिनिन्दयोर्यथा---
'स्निग्धं भवत्यमृतकल्पमहो कलत्रं
हालाहलं विषमिवापगुणं तदेव ।'
तत्त्वाख्याने यथा-
'तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले ।
यस्तन्वि तारकान्यासः शकटाकारमाश्रितः ॥'
हीनत्वाधिकत्वलिङ्गवचनभेदासादृश्यासंभवास्तद्दोषाः ॥ ८॥
तस्या उपमाया दोषा भवन्ति- हीनत्वम् , अधिकत्वम् , लिङ्गभेदः, वचनभेदः, असादृश्यम् , असंभव इति ।
मरकतश्यामं दुष्टराक्षसहारि यत् । अचलं लोचनाग्रान्मे मा चलत्वनिशं महः ॥' इत्युदाहरणान्तरमपि द्रष्टव्यम् । शशिमुखीत्यत्र सादृश्यधर्मवचनयोर्द्वयोर्लोपः । उपमानस्योपमेयस्य वा लोपः समासोक्त्यादावुदाहरिष्यत इत्याह-- उपमानेति । समासोक्त्यादावुपमेयस्य, आक्षेपादावुपमानस्य लोप इति द्रष्टव्यम् ।
उपमामात्रस्य विषयं दर्शयितुमाह---- स्तुतीति । स्निग्धमित्यादौ स्तुतिः । हालाहलमित्यादौ निन्दा | तां रोहिणीमित्यत्र तत्त्वाख्यानम् ॥
उपमादोषानुद्घाटयितुमाह- हीनत्वेति । समासार्थं विविच्य दर्शयति-~~ तस्या इति ।