पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०६
[अधि. ४.
काव्यालंकारसूत्रवृत्तिः।

मापन्नम् । तत्र व्यञ्जनसङ्गे विनिवृत्ते स्वरूपमापद्यते-- अर्हितमिति । अन्यवर्णसंक्रमेण भिन्नरूपस्य पदस्य ताद्रूप्यविधिरयमिति तात्पर्यार्थः । एतेनेतरावपि व्याख्यातौ ।

पिण्डाक्षरभेदे स्वरूपलोपश्चूर्णम् ॥७॥

पिण्डाक्षरस्य भेदे सति पदस्य स्वरूपलोपः चूर्णम् ।

यथा--

  'योऽचलकुलमवति चलं दूरसमुन्मुक्तशुक्तिमीनां कान्तः ।
  साग्नि बिभर्ति च सलिलं दूरसमुन्मुक्तशुक्तिमीनाङ्कान्तः ॥'

 अत्र शुक्तिपदे क्तीति पिण्डाक्षरम् , तस्य भेदे शुक्तिपदं लुप्यते, ककारतिकारयोरन्यत्र संक्रमात् । दूरसमुन्मुक्तशुक् अचलकुलम् , तिमीनां कान्तः समुद्रः।


स्पष्टमन्यत् । नन्वन्यवर्णसंयोगे हि यमकत्वं संगच्छते, कथं तन्निवृत्तिरुपयुज्यत इत्याशङ्क्य तात्पर्यमाविष्करोति--- अन्यवर्णसंक्रमेणेति । एतेनेति । नानाविच्छेदशालिपदमेलने स्वरूपलाभः, भिन्नयोर्हलोः पिण्डीकरणे च स्वरूपलाभ इति द्वौ भेदौ द्रष्टव्यौ।

 चूर्णकं वर्णयितुयाह----पिण्डाक्षरस्येति । पिण्डाक्षरस्य संयुक्ताक्षरस्य । उदाहरति-योऽचलकुलमिति । दूरे समुन्मुक्ता शुक् शोको येन । तिमीनां मत्स्यानां कान्तः प्रियः । उन्मुक्ता उद्गतमुक्ताः शुक्तय उन्मुक्तशुक्तयः मीनाश्च अङ्का यस्य स तादृक् अन्तः पर्यन्तो यस्य तादृशो यः समुद्रः । चलं भयचञ्चलं दूरसमुन्मुक्तशुक् अचलकुलमवति । दूरसं दुष्टरसं साग्नि सलिलं बिभ्रर्ति च । लक्ष्ये लक्षणानुगममभिलक्षयति-अत्रेति । पिण्डाक्षरं दर्शयति-शुक्तिपदे क्तीति । तस्य पिण्डाक्षरस्य वर्णयोः शुगित्यत्र ककारस्य तिमीत्यत्र तिकारस्य च भेदे शुक्तिपदस्वरूपं लुप्यते; तत्र हेतुमाह- ककारेति । ककारतिकारयोः अन्यत्र शुक्तिपदे तिमिपदे च संक्रमादित्यर्थः । संक्रममेव दर्शयति- दूरसमुन्मुक्तशुगिति, तिमीनामिति च । विशेषणद्वयस्य यथासङ्ख्यं विशेष्यद्वयं दर्शयति--- अचलकुलमिति, कान्तः समुद्र इति च ।