पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अधि. १.
१०५
कामधेनुसहिता।

 एते खलु शृङ्खलादयो यमकभङ्गानां प्रकारा भवन्ति ।

 तान् क्रमेण व्याचष्टे--

 वर्णविच्छेदचलनं श्रृङ्खला ॥ ५॥

 वर्णानां विच्छेदो वर्णविच्छेदः, तस्य चलनं यत् , सा श्रृङ्खला ।

 यथा- कलिकामधुशब्दे कामशब्दविच्छेदे च तस्य चलनम् । लिमवर्णयोर्विच्छेदात् ।

 सङ्गविनिवृत्तौ स्वरूपापत्तिः परिवर्तकः ॥ ६ ॥

 अन्यवर्णसंसर्गः सङ्गः, तद्विनिवृत्तौ स्वरूपस्य अन्यवर्णतिरस्कृतस्य आपत्तिः प्राप्तिः परिवर्तकः । यथा---'कलिकामधुगर्हितम्' इत्यत्र अर्हितमिति पदं गकारस्य व्यञ्जनस्य सङ्गात् गर्हितमित्यन्यस्य रूप-


 शृङ्खलादीन् संकथयितुं सूत्रमवतारयति-- तानिति । विग्रहं विवृण्वन् व्याचष्टे--वर्णानामिति । लक्ष्यलक्षणयोरानुकूल्यमुन्मीलयति-यथेति । कलिकामधुशब्दे कामशब्दविच्छेदे च तस्य चलनम्' इति पाठः । अत्र चस्त्वर्थे । पदद्वयात्मके कलिकामधुशब्दे, कामशब्दस्य तु विच्छेदे पृथक्कारे तस्य कलिकामधुशब्दस्य चलनं भवति । कुत इत्यत आह-- लिमवर्णयोरिति । यद्वा, 'कलिकामधुशब्दे कामशब्दविच्छेदे मधुशब्दविच्छेदे च तस्य चलनम्' इति पाठान्तरम् । अत्र चः समुच्चये । अत्र कामशब्दस्य विच्छेदे पृथक्कारे कलिकाविच्छेदस्य चलनं भवति, लिवर्णस्य विच्छेदात् । मधुशब्दस्य विच्छेदे पृथक्कारे कामविच्छेदस्य चलनं भवति, मवर्णस्य विच्छेदादित्यर्थः । एवं शृङ्खलारूपेण वर्णविच्छेदप्रतीतेरयं भङ्गमार्गः शृङ्खलेति व्यपदिश्यते ।

 परिवर्तकं कीर्तयितुमाह- सङ्गेति । तद्विनिवृत्तौ अन्यवर्णसाङ्गत्यविनिवृत्तौ । अन्यवर्णो व्यञ्जनम् , तेन तिरस्कृतस्य तिरोहितस्य स्वरूपस्यापत्तिः । अर्थान्तरभ्रमं निवारयति-- प्राप्तिरिति । लक्ष्ये लक्षणं योजयति-- यथेति