पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१००
[अधि. ४.
काव्यालंकारसूत्रवृत्तिः।

 पादयमकं यथा--

  'असज्जनवचो यस्य कलिकामधुगर्हितम् ।
  तस्य न स्याद्विषतरोः कलिकामधु गर्हितम् ॥'

  एकपादस्यादिमध्यान्तयमकानि यथा---

  'हन्त हन्तररातीनां धीर धीरर्चिता तव ।
  काम कामन्दकी नीतिरस्या रस्या दिवानिशम् ॥'

  'वसुपरासु परासुमिवोज्झतीष्वविकलं विकलङ्कशशिप्रभम् ।
  प्रियतमं यतमन्तुमनीश्वरं रसिकता सिकतास्विव तासु का ॥'

न्तभागेषु यम्यत इति सप्तविंशतिधा । खण्डभेदकल्पनया परिगणनायां भूयसी भेदसंख्येत्युपरम्यते । तत्र दिङ्मात्रं दर्शयितुं पादयमकं तावदुदाहरति-- पादयमकमिति । कलेः कामं दोग्धीति कलिकामधुक् । तथाविधम् असज्जनस्य खलस्य वचो यस्य अर्हितं पूजितं भवति, तस्य पुंसः, विषतरोः कलिकामधु कोरकमकरन्दः गर्हितं न स्यात् तदप्युपादेयं स्यादित्यर्थः ।

 अथैकस्य पादस्यादिमध्यान्तेषु यमकं क्रमेणोदाहरति- एकपादस्येति । हन्तेति । अरातीनां हन्तः, धीर प्राज्ञ । 'धीरो मनीषी ज्ञः प्राज्ञः' इत्यमरः । तव धीः अर्चिता । हन्तेति हर्षे । अतः कामन्दकसंबन्धिनी नीतिः कामन्दकप्रणीता दण्डनीतिरित्यर्थः। अस्यास्तव धियः काममत्यर्थं रस्या अस्वादनीया । नन्वत्र पदयमके द्वयोरपि पदत्वाभावे कथं पदयमकमिति न चोदनीयम् , यमकनिबन्धनयोर्द्वयोरेकस्य पदत्वे सति तदन्यस्य संहिताकाले तदाकारानुकारितया पदावभासजनकत्वाद्भवत्येव पदयमकमिति ।

 वसुपरास्विति । अविकलं संपूर्णमित्यर्थः । विकलङ्कशशिप्रभम् । यतः उपरतः मन्तुः अपराधो यस्य तथाविधं निरागसमित्यर्थः । 'आगोऽपराधो मन्तुश्च' इत्यमरः । अनीश्वरम् ऐश्वर्यरहितम् । प्रियतमं परासुं मृतमिव उज्झतीषु त्यक्तवतीषु वसुपरासु वेश्यासु । सिकतास्विव । रसिकता रसः आसामस्तीति रसिकाः । 'अत इनिठनौ' इति ठन्प्रत्ययः । तासां भावो रसिकता, का न का-