पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/११९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अ. १.]
९९
कामधेनुसहिता।

 स्थानकथनार्थमाह-

 पादाः पादस्यैकस्यानेकस्य चादिमध्यान्तभागाः स्थानानि ॥२॥

 पादाः, एकस्य च पादस्यादिमध्यान्तभागाः, अनेकस्य च पादस्य त एव स्थानानि ॥


भिन्नार्थमेकमनेकं वा पदम् , तद्वदेकमनेकं वाक्षरं च स्थाननियमे सत्यावृत्तं यमकं भवतीति । तथा च पदयमकम् , अक्षरयमकमिति च द्वैविध्यं दर्शितं भवति । कीदृगत्र स्थाननियम इति, तत्राह--स्ववृत्त्येति । यदेव पदमक्षरं वा यमकनिबन्धनं तदेव यदि पादान्तरे वर्तते यथा 'भ्रमर द्रुमपुष्पाणि' इत्यादौ, तत्र स्ववृत्त्या आवृत्तिः । 'सजातीयनैरन्तर्ये चास्य प्रकर्षः' इतीहैव वक्ष्यमाणयुक्त्या सजातीयं यत्र पादान्तरे वर्तते यथा 'हन्त हन्तः' इत्यादौ, तत्र सजातीयस्यावृत्तिः । नियतस्थानावृत्तसमानसंख्याकाक्षरसंनिवेशोऽत्र साजात्यम् । कार्त्स्न्येन समस्तपादगतत्वेन । एकदेशेन पादस्यादिमध्यान्तभागगतत्वेनेत्यर्थः । ननु ' अथ समाववृते कुसुमैर्नवैस्तमिव सेवितुमेकनराधिपम् । यमकुबेरजलेश्वरवज्रिणां समधुरं मधुरञ्चितविक्रमम्' इत्यादौ पादान्तरव्याप्तिलक्षणस्थाननियमासंभवेन यमकता न स्यात् ; अतो लक्षणस्याव्याप्तिरिति, तत्राह-- यानि त्विति । एकस्यैव पादस्य भागे वृत्तिर्येषां तानि एकपादभागवृत्तीनि, तेषु 'द्रुमवतीमवतीर्य वनस्थलीम्' इत्यादिश्लोकान्तरस्थं संस्थानं यस्य तत्तथाभूतं यमकम् , तदपेक्षया सजातीयेनानेकपादव्याप्तिर्भवतीति भवत्येव स्थाननियमः ।

 यमकस्थानानि दर्शयितुं सूत्रमवतारयति-- स्थानकथनार्थमिति । व्याचष्टे-पाद इति । अत्रायं विभागः-- प्रथमपादो द्वितीये तृतीये चतुर्थे क्रमेण यम्यते । एवं द्वितीयस्तृतीये चतुर्थे च । तृतीयश्चतुर्थे । तथा प्रथमो द्वितीयादिषु त्रिषु युगपद्यम्यत इति सप्तधा भवति । प्रथमो द्वितीये तृतीयश्चतुर्थे, प्रथमश्चतुर्थे द्वितीयस्तृतीये, इति द्वौ भेदाविति पादयमकं नवधा । पादस्य त्रेधा विभागपक्षे प्रथमादिपादादिभागः पूर्ववत् द्वितीयादिपादादिभागेषु, प्रथमादिपादमध्यभागो द्वितीयादिपादमध्यभागेषु, प्रथमादिपादान्तभागो द्वितीयादिपादा-