पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/११८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

चतुर्थमधिकरणम् ॥

 गुणनिर्वर्त्या काव्यशोभा; तस्याश्चातिशयहेतवोऽलंकाराः। तन्निरूपणार्थमालंकारिकमधिकरणमारभ्यते । तत्र शब्दालंकारौ द्वौ यमकानुप्रासौ क्रमेण दर्शयितुमाह--

 पदमनेकार्थमक्षरं चावृत्तं स्थाननियमे यमकम् ॥१॥

 पदम् अनेकार्थं भिन्नार्थम् एकमनेकं वा तद्वत् अक्षरमावृत्तं स्थाननियमे सति यमकम् । स्ववृत्या सजातीयेन वा कार्त्स्न्यैकदेशाभ्यामनेकपादव्याप्तिः स्थाननियम इति । यानि त्वेकपादभागवृत्तीनि यमकानि दृश्यन्ते, तेषु श्लोकान्तरस्थसंस्थानयमकापेक्षयैव स्थाननियम इति ।



  निजसौन्दर्यनिर्धौतस्फुरन्मौक्तिकभूषणा ।
  प्रसादविशदालोका शारदा वरदास्तु मे ॥

 आलंकारिकं चतुर्थमधिकरणमारभ्यते । अधिकरणद्वयसंघटनामुद्धाटयति-गुणनिर्वर्त्येति । गुणैर्निर्वर्त्या निष्पाद्या । अलंकारः प्रयोजनमस्येति आलंकारिकम् । 'प्रयोजनम्' इति ठक् । अलंकारा द्विविधाः--शाब्दाः, आर्थाश्च । तत्र शब्दप्रतिपत्तिपूर्विका अर्थप्रतिपत्तिरिति प्रथमं शब्दालंकारान् प्रतिपिपादयिषुस्तद्विभागं दर्शयति-तत्रति । यमकं विवरीतुं यतते-क्रमेणेति । पदमनेकार्थमिति । अनेकार्थमिति पदविशेषणम् , न त्वक्षरविशेषणम् । गवादिश्लिष्टपदवन्नानार्थमात्रं न भवति ; किंतु स्वरव्यञ्जनात्मकं भिन्नार्थं पदमिह विवक्षितमित्याह-भिन्नार्थमिति । अनेकमिति । पदमिति जातावेकवचनमिति भावः । 'तुल्यश्रुतीनां भिन्नानामभिधेयैः परस्परम् | वर्णानां यः पुनर्वादो यमकं तन्निगद्यते॥' इति भामहेनोक्तं प्रत्याख्यातुमाह- स्थाननियमे सतीति । नियमनमत्र गुणनम् , आवृत्तिरिति यावत् । यम्यते गुण्यते आवर्त्य॑ते पदमक्षरं वेति यमः । बहुलग्रहणात् कर्मणि घप्रत्ययः । यम एव यमकम् । अयमत्र वाक्यार्थः-