पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/११५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अ. २.]
९५
कामधेनुसहिता।

 यथा वा---

  'प्रथममलसैः पर्यस्ताग्रं स्थितं पृथुकेसरै-
   र्विरलविरलैरन्तःपत्रैर्मनाङ्मिलितं ततः ।
  तदनु वलनामात्रं किंचिद्व्यधायि बहिर्दलै-
   र्मुकुलनविधौ वृद्धाब्जानां बभूव कदर्थना ॥'

दीप्तरसत्वं कान्तिः ॥ १४ ॥

 दीप्ताः रसाः शृङ्गारादयो यस्य स दीप्तरसः । तस्य भावो दीप्तरसत्वं कान्तिः ।

 यथा-

  'प्रेयान्सायमपाकृतः सशपथं पादानतः कान्तया
   द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्युन्मनाः ।
  तावत्प्रच्युतपाणिसंपुटलसन्नीवीनितम्बं धृतो
   धावित्वैव कृतप्रणाममहहा प्रेम्णो विचित्रा गतिः ॥'

 एवं रसान्तरेष्वप्युदाहार्यम् ।


वेशन्तस्याम्भसि, आमोदते आमोदमुद्गिरतीति योजना । उदाहरणान्तरमाह-प्रथममिति । प्रथममलसैः पृथुकेसरैः पर्यस्ताग्रं शैथिल्यशालिशिखरं स्थितम् । ततः परं विरलविरलैरत्यन्तशिथिलैरन्तःपत्रैर्मनागीषन्मिलितम् । तदनु बहिर्दलैर्वलनामात्रं संकोचक्रियारम्भमात्रं किंचित् व्यधायि । इत्थं वृद्धाब्जानां कदर्थना क्लेशदशा बभूवेति योजना । अस्य विर्यययः संदिग्धत्वं क्लिष्टत्वं च ।

 कान्तिं कथयितुमाह-दीप्तरसत्वमिति व्याचष्टे-दीप्ता इति । दीप्ताः विभावानुभावव्यभिचारिभिरभिव्यक्ताः । प्रेयानिति । अत्र विप्रलम्भपूर्वकः संभोगशृङ्गारः । एवं रसान्तरेष्विति । शृङ्गारो द्विविधः--संभोगो विप्रलम्भश्च । तत्राद्यः परस्परावलोकनपरिचुम्बनाद्यनन्तभेदादपरिच्छेद्यः । तत्रैको भेद उदाहृतः । विप्रलम्भस्तु परस्पराभिलाषविरहेर्ष्याप्रवासशापहेतुक इति पञ्चविधः । तत्राद्यो यथा---'प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदयास्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि । यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी