पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अ. २.]
९१
कामधेनुसहिता।

 अयोनिरन्यच्छायायोनिश्च योऽयमर्थः, स द्वेधा-- व्यक्तः सूक्ष्मश्च । व्यक्तः स्फुट उदाहृत एव ।

 सूक्ष्मं व्याख्यातुमाह--

सूक्ष्मो भाव्यो वासनीयश्च ॥९॥

 सूक्ष्मः खलु द्वेधा भवति-भाव्यः, वासनीयश्च । शीघ्रनिरूपणागम्यो भाव्यः । एकाग्रताप्रकर्षगम्यो वासनीय इति ।

 भाव्यो यथा--

  'अन्योन्यसंवलितमांसलदन्तकान्ति
   सोल्लासमाविरलसंवलितार्धतारम् ।
  लीलागृहे प्रतिकलं किलिकिञ्चितेषु
   व्यावर्तमाननयनं मिथुनं चकास्ति ।'


व्याचष्टे- अयोनिरिति । व्यक्तार्थद्वयस्य प्रागुक्तमुदाहरणद्वयं प्रत्येतव्यमित्याह---- उदाहृत एवेति

 सूक्ष्मविभागं दर्शयितुं सूत्रमवतारयति—सूक्ष्ममिति । विभागं व्युत्पादयति--- सूक्ष्मः खल्विति । भावुकानामवधानमात्रेण विमर्शो भावना, तद्योग्यो भाव्यः । सहृदयसद्व्यवहारसमुल्लसितसंस्कारसंपन्नो योऽवधानप्रकर्षस्तेन गम्यो वासनीयः । तदिदमभिसंधायाह- शीघ्रेति । आद्यमुदाहरति--- भाव्यो यथेति । लीलागृहे मिथुनमुक्तविधं चकास्तीति वाक्यार्थः । अन्योन्यसंवलितमांसलदन्तकान्तीत्यनेन स्मितसंलापाधरास्वादादयः, सोल्लासमित्यनेन हर्षौत्सुक्यादयः, अलसमित्यनेन श्रमाङ्गदौर्बल्यादयः, किलिकिञ्चितेषु व्यावर्तमाननयनमित्यनेन प्रणयकलहगर्वभयकम्पादयश्च व्यज्यन्ते; 'क्रोधाश्रुहर्षभीत्यादेः संकरः किलिकिञ्चितम्' इति दशरूपके तल्लक्षणकथनात् । अत्र मिथुनमालम्बनविभावः । लीलागृहमुद्दीपनविभावः। अधरास्वादाङ्गक्लमस्मितकम्पनयनव्यावर्तनभ्रूभेदादयोऽनुभावाः। उल्लासोन्मीलितहर्षौत्सुक्यादयः किलिकिञ्चिताक्षिप्तक्रोधशोकभयगर्वाश्च संचारिणः । इत्थं विभावानुभावसंचारिभिरास्वादनीयतामापाद्यमानो रतिलक्षणः स्थायी भावः