पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/११०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९०
[अधि. ३
काव्यालंकारसूत्रवृत्तिः।

अर्थो द्विविधोऽयोनिरन्यच्छायायोनिश्च ॥७॥

 योऽसावर्थः प्रस्तुतः, सोऽर्थो द्विविधः-- अयोनिरन्यच्छायायोनिश्चेति । अयोनिः अकारणः, अवधानमात्रकारण इत्यर्थः । अन्यस्य काव्यस्य च्छाया अन्यच्छाया, तद्योनिः।

 तद्यथा-

 'आश्वपेहि मम शीधुभाजनाद्यावदग्रदशनैर्न दश्यसे ।  चन्द्र मद्दशनमण्डलाङ्कितः खं न यास्यसि हि रोहिणीभयात् ॥'

  'मा भैः शशाङ्क मम शीधुनि नास्ति राहुः
   खे रोहिणी वसति कातर किं बिभेषि ।
  प्रायो विदग्धवनितानवसंगमेषु
   पुंसां मनः प्रचलतीति किमत्र चित्रम् ॥'

 अत्र पूर्वस्य श्लोकस्यार्थोऽयोनिः । द्वितीयस्य च अन्यच्छायायोनिरिति ।

व्यक्तः सूक्ष्मश्च ॥ ८ ॥

 द्वैविध्यमर्थस्य दर्शयितुमाह--- अर्थो द्विविध इति । व्याख्यातुं पूर्वसूत्रार्थमनुवदति- योऽसाविति । अयोनिरिति न विद्यते योनिः कारणं यस्येति विग्रहमभिसंधायाभिधत्ते-अयोनिरकारण इति । कथमसति कारणमात्रे कार्योत्पत्तिरित्याशङ्क्य कवित्वबीजप्रतिभोन्मेषप्रयोजकमवधानमेवात्र कारणमित्यवगमयितुं ना प्रसिद्धकारणं प्रतिषिध्यत इत्याह-- अवधानेति,। विधान्तरं व्याकरोति-अन्यस्य काव्यस्येति । तद्योनिरित्यत्र सा च्छाया योनिर्यस्येति बहुव्रीहिः। प्रथमं भेदं दर्शयति-- आश्वपेहीति । स्पष्ठमुदाहरणम् । विधान्तरं व्युत्पादयति-मा भैरिति । बिभेषीत्यत्र मत्त इत्यध्याहार्यम् । स्त्रीणां प्रियस्य पुरतः स्ववैदग्ध्यप्रकटनमुचितमेवेर्त्यवगन्तव्यम् । लक्ष्ये लक्षण- मवगमयति- अत्र पूर्वस्योति । पूर्वभाविना कविना कृतत्वात् ।

 द्विविधस्याप्यर्थस्य द्वैविध्यं दर्शयितुमाह- व्यक्तः सूक्ष्मश्चेति