पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८८
[अधि. ३.
काव्यालंकारसूत्रवृत्तिः।

 यथा---

  'दृष्ट्वैकासनसंगते प्रियतमे पश्चादुपेत्यादरा-
   देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।
  ईषद्वक्रितकंधरः सपुलकः प्रेमोल्लसन्मानसा-
   मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥'

 शूद्रकादिरचितेषु प्रबन्धेष्वस्य भूयान् प्रपञ्चो दृश्यते ।

अवैषम्यं समता ॥ ५॥

 अवैषम्यं प्रक्रमाभेदः समता । क्वचिद्धि प्रक्रमोऽपि भिद्यते ।

 यथा-

  'च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमा
   मलयमरुतः सर्पन्तीमे वियुक्तधृतिच्छिदः।
  अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो
   न च जरठतामालम्बन्ते क्लमोदयदायिनीम् ॥'


दृष्ट्वेति । प्रियतमयोरेका स्वकीया, अपरा तत्सखी प्रच्छन्नानुरागा । अन्यथा नास्त्येकासनसंगतिः । निमील्यमाननयना च न द्वेष्या; तथात्वे हि ‘प्रियतमे' इति कथम् । क्रीडामनुबध्नातीति क्रीडानुबन्धं तच्च तत् छलं च । विहितं क्रीडानुबन्धच्छलं नेत्रनिमीलनकापट्यं येन स तथोक्तः । अस्य विपर्ययो लोकविरुद्धत्वम् । यथा हि मधुरायाः सौवीरेषु सत्ता, यथा मधुरायां म्लोषणसत्ता, तथैव एकासने प्रसिद्धसपत्न्योरवस्थितिः । यथा मधौ कदम्बविकासः, तथा सपत्नीसंनिधावेकस्याः क्रीडा | यथा कलिकामकरन्दो गोष्पदपूरः, तथा क्रमेण युगपद्वा, द्वयोरेकस्या वा निधुवनमिति देशकालस्वभावैर्विरुद्धम् । प्रबन्धान्तरेषु भूयिष्ठमुदाहरणमस्ति, तदूहनीयमित्याह- शूद्रकेति

 समतां समुन्मीलयितुमाह- अवैषम्यमिति । अवैषम्यं नाम प्रक्रमाभेदः, सुगमत्वं वा भवतीत्यभिसंधाय प्राथमिकं पक्षमुपक्षिपति-- अवैषम्यं प्रक्रमाभेद इति । प्रक्रमस्याभेदो भेदाभाव ; तत्प्रतिपत्तेः प्रक्रमभेदप्रतिपत्तिपूर्वकत्वात् प्रक्रमभेदं दर्शयितुं प्रथमतः प्रत्युदाहरणं दर्शयति--- क्वचिद्धि प्रक्रम