पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अ. २.]
८७
कामधेनुसहिता।

अर्थवैमल्यं प्रसादः ॥ ३॥

 अर्थस्य वैमल्यं प्रयोजकमात्रपदपरिग्रहे प्रसादः ।

 यथा-- 'सवर्णा कन्यका रूपयौवनारम्भशालिनी'

 विपर्ययस्तु----'उपास्तां हस्तो मे विमलमणिकाञ्चीपदमिदम् ।'

 काञ्चीपदमित्यनेनैव नितम्बस्य लक्षितत्वात् विशेषणस्याप्रयोजकत्वमिति ।

घटना श्लेषः ॥ ४ ॥

 क्रमकौटिल्यानुल्बणत्वोपपत्तियोगो घटना । स श्लेषः ।


साभिप्रायत्वम् । अस्य च विपर्ययः-- व्यर्थमपुष्टार्थं च । अपुष्टार्थस्य दोषत्वम् 'नापुष्टार्थत्वात्' इति सूत्रे वक्ष्यते । व्यर्थं यथा- 'श्यामां श्यामलिमानमानयत भोः' इत्यत्र श्यामाशब्दः कृष्णत्वमपि प्रतिपादयतीति श्यामलिमानमानयतेति श्यामलिम्नः करणं व्याहतमिति व्यर्थम् । 'चापाचार्यस्त्रिपुरविजयी' इत्यादौ 'तारकारिः' इत्यस्य स्थानेऽनुप्रासानुरोधात्प्रयुक्तम् ‘कार्तिकेयः' इति पदमपुष्टार्थम् ।

 प्रसादं प्रसञ्जयितुमाह-- अर्थवैमल्यमिति । प्रयोजकमात्रपदपरिग्रह इति । विवक्षितार्थसमर्पकपदमात्रप्रयोगेऽर्थस्य यद्वैमल्यं स प्रसादः । न च पञ्चमप्रौढिप्रसादयोः को भेद इति वाच्यम् । तयोः परस्परपरिहारेण दर्शनात् । यथा--- 'रतिविगलितबन्धे केशहस्ते' इत्यादौ ‘कृशाङ्ग्याः' इति पाठे वैमल्येऽपि न साभिप्रायत्वम् । 'अवन्ध्यकोपस्य विहन्तुरापदाम्' इत्यादौ साभिप्रायत्वेऽपि नार्थवैमल्यम् । सवर्णेत्यादि । स्पष्टम् । अस्य विपर्ययोऽपुष्टार्थमनर्थकं च । तत्राद्यमुदाहरति- विपर्ययस्त्विति । विशेषणस्याप्रयोजकत्वमिति । अपुष्टार्थत्वमित्यर्थः । अनर्थकं तु प्रागुदाहृतम् ।

 श्लेषमुन्मेषयितुमाह- घटनेति । मणिपुत्रिकादिषु मुखाद्यवयवयोजनेऽपि श्लेषणं घटना भवति, सा मा भूदित्याह- क्रमेति । नेत्रनिमीलनादीनां यः क्रमः परिपाटी, कौटिल्यं च, तयोरनुल्बणत्वेनोपपत्त्या युक्ततया पृच्छाक्षेपरूपतया बाधाभावस्वभावतया च योजनं घटना विवक्षिता । उदाहरति--