पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२ अध्यायः]
काव्यालकारः ।

पदम् । अत्र त्वकारवकारौ कृतादेशौ क्षीरनीरवदेकीभूताववनक्रियामेकमेवार्थमाहतुः। कश्चिदव्यक्तपृथगर्थावयवः । यथा ‘ऐः’ इति क्रियापदम् । अत्र हि आकारैकारौ पूर्ववदे- कीभूतौ सकारश्च कृतादेशत्वादव्यक्तीभूतः पृथगर्थश्च । यत ऐकार आगतिक्रियासाह सकारो युष्मदर्थे कर्तारमेकत्वं चेति ।चतुर्भेर्दत्वादनेकविद्यातवं । यदि वा द्रच्वजाति- क्रियागुणवाचित्वेन चातुर्विध्यम् । अन्ये तु वक्ष्यमाणवक्रोक्त्याद्यलंकारभेदेन शब्दस्याने- कविधत्वमाहुः । यदि पुनः पञ्चधेत्युत्तत्पदापेक्ष्यानेकविधत्वमुच्यते तदा पञ्चधेत्यनर्थकं स्यात् । अनेनैवोक्तार्थत्वादिति । तं चैवंरूपं शब्दं केचित्पाणिन्यादयः सुप्तिङन्तरूपतया द्विभेदमाहुः केचिच्चतुर्धेति । तह्वद्यं निरसितुमाह-स च भिन्नः पञ्चधा भवतीति । स चेति चकारः पुनरर्थे । ततश्र्वश्यमर्थः। स पुनर्वर्णसमुदायात्मकः शब्दो भिन्नो भेदेन व्यवस्था- पितः सन्पञ्चधा भवति । ते पुनः प्रकारा नामाख्यातनिपातोपसर्गकर्मप्रवचनीयलक्षणाः पुरो भङ्गयन्तरेण वक्ष्यन्ते । अथ ये चतुरधेर्त्याहुस्तेषामव्याप्तिदोषं प्रचिकटयिषुराह--

नामाख्यातनिपाता उपसर्गाश्चेति संमतं येषाम् ।
तत्रोक्ता न भवेयुस्तैः कर्मप्रवचनीयास्तु ॥ २ ॥

नामेति । वस्तुवाचि पदं नाम । क्रियाप्रधानं तिङन्तमाख्यातम् । नामाख्यातयोः समुच्चयाद्यर्थप्रख्यातिनिमित्तं निपाताः । क्रियाविशेषप्रतिनिबन्धनमुपसर्गाः । चशब्द एवार्थे । इति परिसमाप्तौ । एत एव चत्वारः शब्दविधा इति येषां सम्यङ् मतं तत्र तेषु नामादिषु मध्ये तैर्मेधाविरुद्रप्रभृतिभिः कर्मप्रवचनीया नोक्ता भवेयुः । तुरवधारणे भि- न्नक्रमः । सप्तमीसंभावने । नैव संगृहीता भवन्तीति संभावयामि । यतस्तैरुपसर्गेष्वन्त- भार्व: कृतः स चायुक्तो विद्यते । ह्युपसर्गेभ्यो नामादीनामिव कर्मप्रवचनीयानामपि पृथग्व्यापारभेदः। तथाहि-'वृक्षमभिविद्योतते विद्युत्' इति विद्युद्व्रक्षयोक्षयोर्लक्ष्यलक्षणसं- बन्धोऽभिना द्योत्यते । उपसर्गेण तु क्रियाविशेषार्थाभिव्यक्तिरेव क्रियते । तथा कार्य- भेदोऽपि तेषां दृश्यते । यथा घत्वणत्वादिकार्यस्योपसर्गा एव निमित्तम् । द्विर्वचनादि- कस्य तु कर्मप्रवचनीया एवेति । तथा प्रयोगोऽप्युपसर्गाणां नियत एव प्राग्धातोः, न तु कर्मप्रवचनीयानामिति कथमिवोपसर्गेष्वेषामन्तर्भावः । नन्वव्ययानि स्वरादीनि भेदान्तरं विद्यत इति कथं षोढा न स्यादित्ययुक्तम् । स्वरादीनां स्वर्गादिमत्वभूतार्थवाचकत्वेन नामस्वेवान्तर्भावात् । यदि वा नैरुक्तानामव्ययानि निपात एवेति निपातग्रहणेन तेषां संग्रहः। गतयोऽप्युपसर्गा एवेति पञ्चधा शब्द इति स्थितम् । ननु तथाप्युपगुराजपुरुषादयः शब्दसमुदाया व्यतिरिक्ता विद्यन्त इति कथमुक्तं पञ्च-

धेत्याशङ्कयाह-

नाम्नां व्टत्तिर्द्वेध भवति समासासमासभेदेन ।
व्टत्ते: समासवत्यास्तत्र स्यू रीतयस्तिस्त्र ॥ ३ ॥