पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

 अथ यदि नाम राज्ञां यशस्तन्वन्ति तथापि किं तेषां यत्ते काव्यकृतो प्रवर्तन्त इत्याह-

  इत्थं स्थास्नु गरीयो विमलमलं सकललोककमनीयम् ।
  यो यस्य यशस्तनुते तेन कथं तस्य नोपकृतम् ॥ ६ ॥

 इत्थम् ‘स्फुटमा कल्पमनल्पम्’ (१॥४) इत्यनेन प्रकारेण, स्थास्नु स्थिरतरम् , गरीयः प्रभूतम्, दोषाभावाच्च विमलम्, अलमत्यर्थम्, सकललोककमनीयं सकलजनकान्तम्, यः कविर्यस्य राजादेर्यशस्तनुते तेन कथं तस्य नोपकृतम् । सर्वथोपकृतं भवतीत्यर्थः ।।  ननु यदि कविना परस्योपकृतम्, ततोऽपि किं तस्येत्याह-

  अन्योपकारकरणं धर्माय महीयसे च भवतीति ।
  अधिगतपरमार्थानामविवादो वादिनामत्र ॥ ७ ॥

 गतार्थे न वरम् । चकारोऽन्योपकारकरणं चेत्यत्र योज्यः ॥
 एवं धर्म एव कवेः काव्यकरणे प्रयोजनमित्यभिधायार्थकाममोक्षहेतुत्वमप्याह-

  अर्थमनर्थोपशमं शमसममथवा मतं यदेवास्य ।
  विरचितरुचिरसुरस्तुतिरखिलं लभते तदेव कविः ॥ ८ ॥

 अर्थमिति । अर्थे धनम्, अनर्थोपशमेो विपदभावः, शं सुखम्, असममसाधारणम् । इह लोके कामजं परत्र तु पारम्पर्येण मोक्षजम् । अथवा किमेभिर्षहुभिरुक्तैर्यदेवास्य कवेः संमतं तदेवाप्रोतीति । कीदृशः । विरचितसदलंकारदेवतास्तुतिः ।।

 किमत्र प्रमाणमिति चेदित्याह

  नुत्वा तथाहि दुर्गा केचित्तीर्णा दुरुत्तरां विपदम् ।
  अपरे रोगविमुक्ति वरमन्ये लेभिरेऽभिमतम् ॥ ९ ॥

 नुत्वेति । तथाहीत्युदाहरणापदर्शने । दुर्गाप्रहणं देवतोपलक्षणार्थम् । तथाहि केचिद. | निरुद्वादयः शत्रुवश्यादिकां विपदं तीर्णाः । केचिद्वीरदेवादयो नीरजस्वं प्रापुः । अपरे शत्रुन्नप्रभृतयोऽभिमतं वरं लब्धवन्तः । एवमन्येऽप्युदाहरणत्वेव तथाविधा देया इति ॥

 इह केचिद्विक्रमादित्यादिजनितं कविजनसत्कारं श्रुत्वाधुनातननृपेभ्यस्तथानवलोक्य प्रेरयेयुर्यथा नृपेभ्यः सकाशान्न किंचित्फलं तथा देवताभ्योऽपि सांप्रतं न काव्येन किंचि त्फलं भविष्यतीत्याशङ्कयाह--

  आसाद्यते स्म सद्यः स्तुतिभिर्येभ्योऽभिवाञ्छितं कविभिः ।
  अद्यापि त एव सुरा यदि नाम नराधिपा अन्ये ॥१० ॥

 स्फुटार्थे न वरम् । यदि नामेति नामशब्दः परं शब्दार्थे । यदि परं नृपाः । अन्ये देवास्तु त एवेति ॥