द्वैतीयमिति । द्वितीयपादस्यान्त्यार्धे तृतीयपादाद्यर्घे परिवृत्तं मध्याख्यं यमकं जन-
यति । एतस्य मध्यस्य पूर्वोक्तसमस्तान्तादिकस्य योगे वंशो नाम यमकम् । समस्तग्रहणं
व्यस्तान्तादिकनिवृत्त्यर्थम्। तन्निवृत्तिस्तु लक्ष्यादर्शनात्, न त्वसंभवात् । एवमन्यत्रापि
द्रष्टव्यम् । अपिः समुच्चये ।
तत्रोदाहरणमाह
समस्तभुवनव्यापयशसस्तरसेह ते ।
रसेहते प्रियं कर्तुं प्राणैरपि महीपते ॥ २८॥
समस्तेति । हे महीपते भूपते, तवेहात्र रसा पृथ्वी प्राणैरपि । आस्तां धनादिभिः ।
प्रियं हितं कर्तुमीहते चेष्टते । तरसा झगिति । कीदृशस्य ते । समस्तभुवनव्यापियशसः
सकलजगद्व्यापिश्लोकस्य। इति मध्यः ।
अथ वंशः
ग्रीष्मेण महिमानीतो हिमानीतोयशोभितः।
यशोऽभितः पर्वतस्य पर्व तस्य हि तन्महत् ॥ २९ ॥
ग्रीष्मेणेति । ग्रीष्मेण निदाघेन पर्वतस्य शैलस्य महिमा माहात्म्यमानीतः । कीदृशः।
महद्धिमं हिमानी ततः स्त्रुतेन तोयेनाम्बुना शोभितो राजितः । हि यस्मात्तस्य पर्वतस्य
तद्धिमानीतोयमभितः समन्ताद्यशो वर्तते । तथा पव महोत्सवश्च महन्महाप्रमाणम् ।
पुनर्मेदमाह
आवृत्तं प्रथमादौ द्वितीयमर्धम् चतुर्थपादस्य ।
वंशश्च चक्रकाख्यं षष्ठं चान्तादिकं यमकम् ॥ ३० ॥
आवृतमिति । चतुर्थपादद्वितीयार्धे प्रथमपादाद्यर्धेन सहावृत्तं पूर्वोक्तवंशति यमक
योगे चक्रकं नाम यमकम् । षष्ठोऽन्तादिकभेदः । एकश्चकारो वंशकसमुच्चये द्वितीयश्च ।
चक्रस्यान्तादिकमध्ये समुच्चयार्थः ।
सभाजनं समानीय स मानी यः स्फुटन्नपि ।
स्फुटं न पिहितं चक्रे हितं चक्रे सभाजनम् ॥ ३२ ॥
सभाजनमिति । स एव मानी मनस्वी यश्चक्रे राष्ट्रे हितं चक्रेऽनुकूलं चकार । किं
कृत्वा। सभाजनं सभालोकं समानीयं सम्यगात्मसमीपं प्रापय्य । सभ्यानां विदितं कृत्वे
त्यर्थः । कथं हितं चक्रे। पिहितं गुप्तम्, न स्फुटं प्रकटम्। अविकत्थनात्। किं कुर्वन्नपि ।
स्फुटन्नपि पीडितोऽपि। कीदृशं सभाजनम् । सभाजनं प्रीतिदर्शनम्। लक्षणं सर्वत्र स्वधिया
योज्यम् । अत्र च सप्तमोऽप्येष भेदः संभवति । यत्र केवलमेव प्रथमाद्यर्धे चतुर्थान्त्यार्ध
मावर्त्यते स तु पूर्वकविलक्ष्येषु दृश्यमानोऽपि कथमपि नोक्तः ।
पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/२८
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
काव्यमाला ।
